Book Title: Mahadandak Stotrapar Paryayalpabahutva Vichar Stavanam Author(s): Unknown Publisher: Unknown View full book textPage 4
________________ महाद.स्तो. सावचूरि० // 8 // RSASARAAAAAA अस्य च राशेः प्रथम द्वितीयं तृतीयं च वर्गमूलं गृह्यते, तानि च क्रमात् 16 / 4 / 2 प्रमाणानि परिकल्प्यन्ते / द्वितीयं 4 तृतीयेन.२ गुणितं 8 प्रदेशा एतावतीषु प्रतरश्रेणिषु यावन्त आकाशप्रदेशास्तावन्त्य ईशानदेवदेव्यः। प्रस्तुतसूत्रे सामान्येनेशानादिव्यन्तरपर्यन्ता असंख्येयश्रेणिसमा उकाः। स्वस्वस्थाने किश्चिद्विशेषोऽपि दर्शयिष्यते // 4 // ईसाणदेवि 26 सोहंमैजुअल 27 / 28 संखा असंख भवणवई 29 / तद्देवी संखगुणों 30 असंख रयणपह 31 खगपुरिसा 32 // 5 // ईशानदेव्यः संख्येयगुणाः 26 / सौधर्मदेवाः संख्येयगुणाः / माहेन्द्रापेक्षया सनत्कुमारदेवा असंख्येयगुणा उक्ताः, इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्यादिपूर्वोत्तयुके समानत्वेऽप्यत्र संख्येयगुणत्वं, वचनप्रामाण्यात् 27 / सौधर्मदेव्य: संख्येयगुणाः 28 / भवनवासिनो देवा असंख्येयगुणाः यतोऽङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु लोकश्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीवर्गः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पाश्च देवाः 29 / संख्येयगुणाभवनपतिदेव्यः 30 // ततो रक्षप्रभानारका असंख्येयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्तो नभम्प्रदेशास्तावत्प्रमाणत्वात् 31 // ततः खगपञ्चेन्द्रियतिर्यगपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवय॑संख्येयश्रेणिनभम्प्रदेशराशिप्रमाणत्वात् // 32 // 5 // 1 "सोहमसुर 27 देवि 28 तत्रो" इत्येवंरूपेण कचित् // GRANSPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12