Book Title: Mahadandak Stotrapar Paryayalpabahutva Vichar Stavanam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 6
________________ महाद.स्तो. विशेषाधिकाः / यद्यपि पर्याप्तचतुरिन्द्रियादित्रीन्द्रियपर्यन्तानामङ्गलासंख्येयभागमात्राणि सूचिखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वेऽपि अङ्गुकसंख्येयभागस्य संख्येयभेदत्वात् इत्थं विशेषाधिकत्वं न विरुद्धम् 48 / अपर्यायाः पञ्चेन्द्रिया असंज्ञिनोऽ संख्येयगुणाः, अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवति / तावत्प्रमाणत्वात् 49 / अपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः 50 / ततोऽपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः 51 / ततो द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः। अपर्याप्तपञ्चेन्द्रियादीनां चतुर्णा समानसंख्याप्रकारत्वेऽप्यनुलासंख्येयभागस्य विचित्रत्वाद् इत्थं विशेषाधिकत्वमदुष्टम् 52 // 7 // बायरपज्जपरित्ता 53 निगोअ 54 भू 55 दग 56 समीर 57 तह अपजा। __ थूलग्गि 58 परित्त 59 निगोअ 60 पुढवि 61 जल 62 पवण 63 सुहुमग्गी 64 // 8 // | प्रत्येकवादरवनस्पतयः पर्याप्ता असंख्येयगुणाः, द्वीन्द्रियादिवदेषामपि दक्ष्यमाणबादरपर्याप्तनिगोदपृथिव्यप्कायिकाना-2 मपि च एकपतरगतामुलासंख्येयभागमात्रसूचीरूपखण्डप्रमाणत्वस्यान्यत्राविशेषेणोकावप्यकुलासंख्येयभागस्यासंख्येयभेदत्वादसंख्येयगुणत्वाभिधानेऽपि न दोषः 53 / बादरनिगोदाः अनन्तकायिकशरीरूपाः पर्यावा असंख्येयगुणाः 54 ततो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणा: 55 / बादराकायिकाः पर्याप्ता असंख्येयगुणाः 56 / ततोचादरवायुकायिकाः पर्याप्ता असंख्येयगुणाः, घनीकृतलोकासंख्येयमागवर्त्यसंख्येयप्रतरगतनभप्रदेशराशिप्रमाणत्वात् लोके सप्तरज्वायामविष्कम्भा एक प्रदेशप्रमाणपिण्डाःसर्वात्मनात्वसंख्येयनमःप्रदेशप्रमाणा उपर्युपरिव्यवस्थितप्रभूतमण्डका इवासंख्येवाः %AGRAASARALACHAR

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12