Book Title: Mahadandak Stotrapar Paryayalpabahutva Vichar Stavanam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 2
________________ महादं-स्तो. संपद्यते इति धनसंपूर्णता / तस्मादष्टौ नव वावलिकागर्भा वर्गाः कल्प्यन्ते / तथा च सति 800 / 900 प्रमाणा वा सद्भावतस्त्वसंख्येया बादरपर्याप्ता अग्निकायिकाः सिद्धाः स्युः 3 / अनुत्तरोपपातिनोऽसंख्येयाः, प्रमाणाङ्गलश्रेण्यसंख्येयभाग-18 प्रदेशराशिप्रमाणत्वात् क्षेत्रपल्योपमासंख्येयभागवर्तिनभ-प्रदेशराशितुल्या इत्यर्थः 4 // 2 // उवरिम 5 मज्झिम 6 हिहिम 7 अचुया ८रण 9 पाणया 10 णय 11 सुराय / चउदस असंख माघवइ 12 मघा 13 सहसार 14 महसुक्का 15 // 3 // . उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः,बृहत्तराङ्गुलश्रेणिसंख्येयभागप्रदेशसशिप्रमाणत्वात् / यतोऽनुत्तरसुराणां पञ्च, उपरितनौवेयकत्रिके शतं विमानानां, प्रतिविमानं चासंख्येया देवा यथा चाधोऽधोविमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति / एवमुत्तरत्रापि भावना यावदानतः 5 / मध्यमवेयकदेवाः संख्येयगुणाः 6 / अधस्तनप्रैवेयकदेवाः संख्येयगुणाः 7 / अच्युतदेवाः संख्येयगुणाः 8 / आरणदेवाः संख्येयगुणाः 9 / यद्यपि आरणाच्युतौ रामश्रेणीको समविमानसंख्याको च; तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् / बहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिका इति / येषां किंचिदूनपुद्गलपरावर्तार्धमात्रसंसारस्ते शुक्लपाक्षिकाः, अन्ये तु कृष्णपाक्षिकाः। तथास्वाभाव्यं च पूर्वाचार्यैरवमवर्ण्यत-कृष्णपाक्षिकादीर्घसंसारिणः;ते च बहुपापोदयाद्भवन्ति, ते च क्रूरकर्माणः, प्रायस्तथास्वाभाव्यात् / भवसिद्धिका अपि दक्षिणस्यामुत्पद्यन्ते, न शेषासु दिक्षु / उक्तं च-"पायमिह कूरकम्मा भवसिद्धी १"-रेवं वर्ण्यते" इत्यपि कचित् // SASACRACका

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12