Book Title: Linganushasana
Author(s): Chimanlal D Dalal
Publisher: Central Library
View full book text
________________
चित
मनः, वित्तं द्रव्यम् । न । विपिनं वनं, काननमटवी, जघनं पूर्वकटीभागः, आननं मुखम्। ल । शीलं स्वभावः, मूलं प्रसिद्धमेव, जलं सलिलं तोयं, कमलं पद्मम्, उत्पलमिन्दीवरम् । स्तु । इदं वस्तु पदार्थः, इदं मस्तु नो यदधः पानीयं, वास्तु भूमिविशेषः । त्व । इमानि तत्त्वानि पृथिव्यादीनि इदं सत्त्वं गुणः । नामेति किम् ? । रचितो ग्रन्थः, कृता स्तुतिः, कृतं कुण्ड, कृत्तः कटः, कृत्ता साटिका, गोदोहनः घटः, सुशीलः पुरुष इत्यादि । सेति तशब्दसंयुक्तग्रहणात्, रत्नचि चेति निर्देशाच, तत्त'नलशब्दाः केवला एव गृह्यन्ते । तेनेह नपुंसकलिङ्गता न भवति । अयमन्तः अवसानं, हस्तः पाणिः, मुहूर्त्तः क्षणः, धम्मिल्लः केशरचना, चिक्खल्लः कर्दमः । मन्शब्दो अन्तो यस्य स मन्नन्तो, च द्वौ अचौ यस्मिन्स यच् । मन्नन्तो यो यच्छन्दः स नपुंसकलिङ्गो भवति । इदं साम प्रियं वेदश्व, धाम स्थानं तेजश्व, शर्म सुखं, भस्म भूतिः । पुल्लिङ्गनिर्देशान्मन्नन्त इत्यत्र सामान्येन शब्दः परिगृह्यते, न नामैव । तेन प्रियस्य भाव इदं प्रेम, बहूनां भाव इदं भूम । द्व्यजिति किम् ? 1 अयं तरीमा कल्पः । सवीमा मसवः । इयजुदितमपि सन्तम् । पुल्लिङ्गं स्त्रीलिङ्गं वा प्रोक्तमपि सकारान्तं द्व्यच् नाम नपुंसकलिङ्गं भवति । इदं यशः कीर्त्तिः, तेजः दीसिः, ओजः दीप्तिः बलं च, ओकः स्थानं, यादो जलजन्तुः । द्व्यजिति किम् ? । अयं दोर्बाहुः, अयमनेहाः कालः । उदितमपि । इदं रक्षः राक्षसः, तमः राहुः । दैवाभिधानत्वात्पुलिङ्गमुक्तम् । इदं वयः पक्षी, प्राण्यभिधानात्पुल्लिङ्गमभिहितम् । नामेलि किम् ? । सौजाः पुरुषः, सौजाः स्त्री । सान्तमेव इयजुदितमपि नपुंसकलिङ्गं भवति । अन्यत्र पुनरनुदितमेव वेदितव्यम् । तेनायं पारा - पतः पक्षी, शैलः पर्वतः, असनः वृक्षविशेषः, पुत्रः तनयः, शत्रुः अरिः, आर्यः साधुरित्यादि । हल्पूर्वी येभ्यस्ते हल्पूर्वा ररुयशब्दास्तेऽन्ते यस्व तत्, तथोक्तं नाम नपुंसकलिङ्गं भवति । र । गोत्रं कुलं, पानं भाजनं, पत्रं पर्ण, वनं वासः । रु। अश्रु नेत्रवारि श्मश्रु मुखरोमाणि, जन्नु गलादूर्ध्वम् । य । धान्यं सस्यं व्रीह्यादि, आज्यं घतं द्रव्यं धनम् ।
"
भवनस्य रजतहान्तं चार्थरणापत्यहृदयतालुपुराम् । रान्तं च तनोर्दारुड तमसामव्यक्तलिङ्गोक्तौ ॥ ३ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33