Book Title: Linganushasana
Author(s): Chimanlal D Dalal
Publisher: Central Library
View full book text
________________
वामनीयलिकानुशासनं . न उक्तः अन्यलिङ्गः स दुशब्दान्तः हलन्त इदन्तः लित्प्रत्ययान्तशब्दः स्त्रीलिङ्गो भवति । इयं ददुः स्वग्दोषः, शतछः नदी । अनुक्त इति किम् । हरिद्वः तर, सितगुः अब्धिः, शतगुः नदः । हलन्तः । इयं त्विट् दीसिः, विमुद् शीकरः, समित् इध्म, वीरुत् गुल्मम् । इदन्तः । खचिः तेजः, धूलिः पांसुः, द्विः पाकघहनी, वेदिः यागार्थ भूमिरचनाविशेषः, अहन्तिनम् । लित्। तल्-प्रत्ययान्तः । ग्रामता जनता । अनुक्त इति किम् ? । अनडान् विपश्चित् सुकृत् कविः मुनिः हरिः गिरिः। अन्तशब्दग्रहणादियं भक्तिः कृतिः लब्धिः सिद्धिरित्यादि। प्राङ्ग्रह गनिवृत्त्यर्थमिह ग्रहणम् । तेन परत्रापि यत्रोक्तमन्यलिङ्गं तत् स्त्रीलिङ्गं भवति । अन्यथा अनेकलिङ्गार्थस्य स्त्रीत्वं प्रामोति । दीधितिः रश्मिः, जातिः कुसुमविशेषः, इयमाजिः रणम्, इयं दरत् हृदयम्, इयं यौःस्वर्गः गगनं च, इयं विट् पुरीषम् , इयं छर्दिः वान्तिः , छर्दिः.......... भवति । वैश्यार्थस्तु पुल्लिङ्ग एष । अयं विट् वैश्यः ।
भावाःपूरुडुकाकुप्रियङ्गुहृत्स्नायुरज्जुचञ्चुतनुः । बहवश्व समासिकतावर्षाप्सुमनोजलौकसोऽप्सरसः ॥ २३ ॥
एते भासादयः शब्दाः स्त्रीलिङ्गा भवन्ति । इयं भाः कान्तिः, इयं बाः बारम्, इयं पू: पुरम्, इयमुडः भम् । बारपुरुडशब्दानां नपुंसकत्वं प्राप्तम् । इयं काकु: उच्चारणविशेषः। हृद् हृदयं, स्नायुः शरीरान्तर्वद्रः, रज्जुबन्धनद्रव्यं, चञ्चुः पक्षिणां तुण्डं, तनुः शरीरम् । उकारान्तत्वात्पुंस्त्वं प्राप्तम् । बहवश्व । इमाः समाः वर्षम्, इमाः सिकता वालुका, वर्षा ऋतुविशेषः, इमा आपः जलं,सुमनसो देवाः । बहव इति किम्।। सुमनः पुष्पम् । जलौकसः रक्ताकर्षप्राणी । अप्सरसः देवयोषित् । पृथगुपन्यासात् इयमप्सरा इत्येकवचनमपि ।।
इति स्त्रीलिङ्गाधिकारः समाप्तः । विषकुलिशकलत्राणि त्रिविष्टपात्रे नपुंसके पर्व । प्रसवाश्ववडववाक्छेदगरदुचाखेधसः पुंसि ॥ २४ ॥
एते विषादयः पुलिङ्गा भवन्ति । कुलिशं वजम्, इदं कलत्रं भार्या, त्रिविष्टपं स्वर्गः, अनं मेघः । इदं पर्वानान्तत्वात् पुंस्त्वं प्राप्तम्।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33