Book Title: Linganushasana
Author(s): Chimanlal D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 24
________________ वामनीनुशासनं. आत्मा जीवः, वर्धः चर्मतन्तुः, मेद्रः शेषः, मन्त्रः उकारादिवर्णरचना । स्तनादीनां नान्तत्वात्, वेमादीनां मन्नन्तत्वात्, वर्धादीनां हल्पूर्वरान्तत्वात्, नपुंसकत्वं प्राप्तम् । २४ गतsaटो निकाय्योऽथाच्छादपटस्तथोत्तरासङ्गः । नूपुरहारकलापा रैकोशस्वार्थविभवाश्च ।। १९ ।। गर्त्तादयः पुलिङ्गा भवन्ति । अयं गतः प्रसिद्ध एव । अवटः श्वभ्रं, निकाय्य: गेहम्, अयमाच्छादनपटः । उत्तरासङ्गः वस्त्रम्, नूपुर: हारः कलापः आभरणजातिः । राः धनं, कोश: निधिः, स्वः वित्तम्, अर्थः विभवः । चशब्दः पादपूरणार्थः । बहवश्च सक्तुवल्वजदारालाजाऽसुगृहा दशा वास्त्राः । नायन आदि जनाः पराणि व्रणयुगपदा ||२०|| न एते शब्दाः पुल्लिङ्गा भवन्ति । चशब्दाद्बहवश्च भवन्ति । इमे सक्तवः यवचूर्णः । इमे वल्वजाः वीरणरचितकटः । इमे दाराः भार्या लाजा असु इति पृथकूपदकरणात्तत्पर्यीयस्यापि पुंस्त्वं बहुत्वं च भवति । इमे लाजा अक्षता, इमे असवः प्राणाः । इमे गृहा गेहम् । अर्द्धर्चादित्वादिदं गृहं गृहे गृहाणि । इमे दशाः वस्त्रस्यावयवभूताः । वास्ना इति किम् । इयं दशा वयोऽवस्था । नाडी-अनस्-आदि-जनाप इत्येतेभ्यः पराणि व्रण-युग-पद- अङ्ग - इत्येतानि नपुंसकानि सन्ति पुल्लिङ्गानि भवन्ति । नाडीव्रणः, अनोयुगः शकटयुगं, जनपदः देशः, अपाङ्ग कटाक्षः । एतत्पराणीति किम् ? । शिरोव्रणं शिरोव्रणः, कलियुगं, वस्त्रयुगम्, गोष्पदम्, आस्पदम्, उत्तमाङ्ग, वराङ्गम् । व्रणं व्रणः युगं पदमङ्गम् । रान्तं चेति शब्दान्नपुंसकता युगादीनाम् । मलखलकपोलकम्बलचषालकल्लोलकालकीलगलाः । तरलप्रवालतण्डुलकललोपलतूलफालपूलनलाः ॥ २१ ॥ · मलादयः शब्दाः पुल्लिङ्गा भवन्ति । अयं मलः प्रसिद्ध एव । खलः पिण्याकः । मलशब्दसाहचर्यात् खलशब्दो यः मलवाची स पुल्लिङ्गले भवति । अन्यार्थस्य तु यथाप्राप्तमेव लिङ्गं भवति । इदं खलं धान्यमईन

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33