Book Title: Linganushasana
Author(s): Chimanlal D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 23
________________ . .. इपिसमेलम् प्राणिनां समेतानां यमाम तदनेन पुल्लिन भवति । इयं श्रेणिः शिल्पसमूहा, इयं परिक्त शिसमुदायः। धान्यानां यत्राम पुल्लितं भवति । शालिव्रीहिः तिला। रात्रिशब्दः समासान्ताच्प्रत्ययो गृखते। सोसमाहारे वर्तमानः पुल्लिङ्गे भवति । अहवरात्रिबेति विगृह्य "अहःसर्वेकदेशसङ्ख्यातपुण्याच रात्रेः (५-४-८७) " इति टच्यत्ययः। “यस्येति च (५-४-१४८)" इति टिलोपः। “अहोरात्राविमौ पुण्यौ" सर्वरात्रः पूर्वरात्रः मध्यरात्रः वर्षारात्रः दीर्घरात्रः । समाहार इति किम् ? अहोरात्रं विरात्रं त्रिरात्रं पञ्चरात्रम । विगुरपि पात्राद्यन्त इति नपुंसकता। दुन्दुभिरनक्षे । दुन्दुभिशब्दः अनक्षेऽभिधेये पुल्लिङ्गो भवति । दुन्दुभिः भेरीविशेषः विषं चोच्यते-अनक्ष इति किम् ? । इयं दु. न्दुभिः अक्षम्-उक्तं च-" दुन्दुभ्या किल तत्कृतं पतितया यद्रौपदी हारिता"। अन्थिकलिकेलिबलिगिरिदृतिराशिं च मौलिकुक्षिपाण्यङि। अञ्जलिहाहाहूहूसङ्केतवातपोतपताः ॥ १७ ॥ प्रन्थिप्रभृतयः शब्दाः पुल्लिङ्गा भवन्ति । अयं ग्रन्थिः प्रसिद्ध एव । कलिः कलहः युगं च,केलिः परिहासः,बलिः उपहारः, गिरिः कन्दुकः,दृतिः चर्ममयो जलाधारः, राशिः पुनः। चशब्दः प्राण्यङ्गामाण्यङ्गयोर्विभागाथः । तेनेह ग्रन्थ्यादिपठितो वलिशब्दोऽप्राण्यङ्गः पुल्लिङ्गो भवति ।प्राण्यअस्तु स्त्रीलिङ्गो भवति । इयं वलिः वली । मौलिः शिरश्चूलिका इति । कुक्षिराहाराधारः, पाणिः हस्तः, अडिः पादः, अञ्जलिः करविन्यासः । हाहाहू गन्धर्वो । सङ्केतः प्रसिद्ध एव । व्रातः सङ्घाता, पोतः यानपात्रं, पुतः स्फिक। सङ्केतादीनां तान्तत्वान्नपुंसकत्वं प्राप्तम्। पुल्लिङ्गार्थ वचनम् ।। स्तनवातायनहायनजनौदनाभिजनफेनवेमाश्म । श्लेष्मोष्मपाप्मयक्ष्मात्मवर्धमेद्राश्च मन्त्रयुताः ॥ १८ ॥ एते स्तनादयः पुल्लिङ्गा भवन्ति । अयं स्तनः कुचः, वातायनो गवाक्षः, हायनः संवत्सरः, जनः लोकः, ओदनः तण्डुलपाका, अभिजनः कुलीनता, फेनः जलविकारः, वेमा तन्तुवायोपकरणः, अश्मा पापाणा, श्लेष्मा कफा, ऊष्मा उष्णत्वं, पाप्मा पाप, यक्ष्मा क्षयरोगा,

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33