Book Title: Linganushasana
Author(s): Chimanlal D Dalal
Publisher: Central Library
View full book text
________________
वामनीवल्लिामासनं . . भायर्यादिअनुमं गन्तव्यं, सिध्मं त्वद्गोषः, इध्य समित् , युग्मं युगलं, गुरुमं वीरत् व्याधिविशेषम। - किशलयशिशिरकुकुन्दरचामरकान्तारतीरदूराणि।
वैराक्षरान्तरोषरकिण्वशरावाणि दैवं च ॥१२॥ • किसलयादीनि नामानि नपुंसकानि भवन्ति । किसलयं पल्लवः, शिशिरस्तुविशेषः, कुकुन्दरं नितम्बस्थकूपकः, चामरं वालव्यजनं, कान्तारमटवी, तीरं तट, दूरं विप्रकृष्टम् । वैरं प्रसिद्धमेव । अक्षरमकारादिवर्णः, अन्तरं मध्यं, ऊपरं यत्रोतं न प्ररोहति, किण्वं सुरायाः कारणं, शरावं मृत्पात्रं, देवं पुराकृतं कर्म ।
कणिशं बडिशं पलिशं शीर्ष वर्ष च साहसं सबुसम् । पुण्याहं सुदिनाहं यकृपुरीतज्जगद्भुवनम् ।।.१३ ।।
कणिशादीनि नामानि नपुंसकानि भवन्ति । कणिशं शाल्यादीनां मञ्जरी, बडिशं मत्स्यग्रहणं, पलिशं झाटकविशेषः, शीर्ष मूर्खा, वर्ष वत्सरः, साहसं दुष्करं कर्म, बुसं धान्यमलः । पुण्यं च तत् अहश्च तत् पुण्याहम, तथा सुदिनाहं, "राजाहःसखिभ्यष्टच्(५-४-९१)” इति टच् प्रत्ययः । परवल्लिङ्गं बन्छे तत्पुरुषे च इति नपुंसकत्वे सिद्धेऽपि नियमार्थं वचनम् । अन्यशब्दपरस्य तत्पुरुषे अहःशब्दस्य कृतटच्प्रत्ययस्य नपुंसकत्वं न भवति, अन्तत्वात्पुल्लिङ्गं भवति । अहनी समाहृते ग्रहः, व्यहः, पश्चाहः, दशाहः, परमाहः, उत्तमाहः । यकृत कालिज, पुरीतत् अन्त्रं, जगत् लोकः, भुवनं स्वर्गः।
नीडं गृहशशपूर्वे स्थूणोणे गन्धमादनास्थ्यक्षि । सक्थ्यररिकशिपुजानु च कसेस्तोरणबिसार्द्धटचाहः ॥ १४ ॥
नीडादीनि नामानि नपुंसकानि भवन्ति । नीड कुलायः पक्षिणामावासः। गृहशब्दपूर्वः स्थूणाशब्दःशशपूर्वश्च ऊर्णाशब्दानपुंसके भवतः। गृहस्यूर्ण शशोर्णम् । गृहस्य स्थूणा शशस्योर्गेति परवल्लिात्वे प्रासे नपुंसकार्य वचनमिदम् । इदं गन्धमादन पर्वतविशेषः।अस्थि पञ्चमो पातुः। "रसासकांसमेदोस्थिमजगुकाणि धातवः" । इदमक्षि लोचनं, स

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33