Book Title: Laghu Trishashti Shalaka Purush Charitam
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 357
________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 331 तृतीयेऽपि वरे न्यस्ते पुरे चाशिवमुत्थितम् / पृष्टोऽभयस्तु तच्छान्त्यै जगादैवं तदोत्तरम् // 455 // आयान्तु सर्वाः सद्भूषाः देव्यस्तत्र भिया दृशा / त्वां या जयति सा ज्ञाप्या ममोपद्रवशान्तये // 456 // राज्ञा सर्वा जिता दृष्टया कयाऽपि न जितो नृपः / जितेऽथ शिवया राशि चक्रे भूतार्चनं शिवा // 457 // यद् यद् भूतं शिवारूपेणोत्तिष्ठत्यथवाऽश्यते / तस्य तस्य मुखे देव्या क्षेप्यः कूरबलिः स्वयम् // 458 // तथैव शिवया चक्रे प्रशान्तं चाऽशिवं पुरः / वरदाने कृते तुर्येऽभयेनाऽयाचि भूपतिः / 459 / स्थितो नलगिरौ मेढीभूते त्वयि शिवांकगः / अहं विशाम्यग्निभीरूरथ दारुकृतां चिताम् / 460 / वरं दातुमशक्तः स प्रद्योतोऽजलिनाऽभयम् / विससर्ज वदन्नेवं स राजगृहमभ्यगात् / 461 / कियत्यपि गते काले रूपवद् युवतिद्वयम् / .. गणिकां च सहादायाऽभयोऽप्युज्जयिनीं ययौ // 466 // प्रद्योतो राजमार्गे ते स्त्रियौ व्यालोक्य मूढधीः / - रन्तुमिच्छन् तदाह्वाने दूतिका प्राहिणोनिशि // 463 // ताभ्यां पराकृता दूती तदेवं सप्तमेऽहनि / प्रोचे दूती स्वयं राजाऽभ्येतु भावीह सङ्गमः / 464 / एकः स्वभृत्यः प्रद्योतनामा चक्रेऽभयेन सः / रथेऽध्यारोप्य वैद्यस्य सदनेऽनीयताऽन्वहम् // 465 // सप्तमे दिवसे प्राप्तो निशि प्रद्योतभूपतिः / बद्ध्वाऽभयभटैनिन्ये शीघ्रं राजगृहेऽवदन् / 466 / भृत्यो रराट प्रद्योतोऽहं बद्धो वणिजाऽमुना / नीयते काऽपि तन्मोक्षः कार्यः शूरेण केनचित् // 467 // लोकैतिं स भूतात? नीयमानो रटत्यदः / इति व्याहरिका नासीत् तं वीक्ष्य श्रेणिकोऽवदत् // 468 / / हन्तव्योऽयमिति प्रोक्तेऽभयोऽवादीन चोचितम् / . सन्मान्याऽतिथिवन्नेयो जयेनोज्जयिनी पुरीम् // 469 // एकदा श्रीसुधर्माख्यसमीपे काष्ठभारिकः / श्रामण्यमाददे लोकैर्हसितो निन्दितो भृशम् / 470 /

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376