________________
श्री लघुहेमप्रभान्याकरणम्.
कथमि सप्तमी च वा ॥ ५ । ४ । १३ ॥
उपपदे क्षेपे गम्ये धातोर्वर्त्तमाना ॥ कथं नाम तत्र भवान् मांसं भक्षयेत्, भक्षयति वा, गहमिहे, अन्याय्यमेतत, पक्षे अवभक्षत्, भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तंत्रभवान् मांसमक्षयिष्यत् । पक्षे यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥
किं वृत्ते सप्तमीभविष्यन्त्यौ । ५ । ४ । १४ ॥
( १५२ )
उपपदे क्षेपे गम्ये धातोः ॥ किं तत्रभवाननृतं ब्रूयाद् वक्ष्यति वा । कः कतरः कतमो वा नाम यस्मै तत्रभवाननृतं ब्रूयात् वक्ष्यति वा ।। अश्रद्धामर्षेऽन्यत्रापि ॥ ५ । ४ । १५ ।।
उपपदे गम्ये सप्तमीभविष्यन्त्यौ । न श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति वा । न श्रद्दधे किं तत्र भ वानदत्तमाददीत । आदास्यते वा । न मर्षयामि न क्षमे तत्रभवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति वा ॥ किंकिलास्त्यर्थयोर्भविष्यन्ती ॥ ५ । ४ । १६ ॥
उपपदयोरश्रद्धामर्षयोर्गम्ययोः ॥ न श्रद्दधे न मर्षयामि किंकिल नाम तत्रभवान् परदारानुपकरिष्यते । न श्रद्दधे न मर्षयामि अस्ति नाम भवति नाम तत्रभवान् परदारानुपकरिष्यते ॥
जातुयद्यदायादौ सप्तमी ॥ ५ । ४ । १७ ॥ उपपदे ऽश्रद्धामर्षयोर्गम्ययोः ॥ न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां पिबेत् । एवं यत् यदा यदि सुरां पिवेत् ॥
क्षेपे च यच्चयत्रे ॥ ५ ॥ ४ ॥ १८ ॥ उपपदेऽश्रद्धामर्षयोर्गम्ययोः सप्तमी ॥ धिग्गहूमहे यच्च यत्र वा