Book Title: Kiratarjuniyam
Author(s): Mardi Mahakavi, Virendrakumar Sharma
Publisher: Jamuna Pathak Varanasi

View full book text
Previous | Next

Page 84
________________ प्रथमः सर्गः ८१ वृत्तान्तमकथयत् (अथवा - राजा युधिष्ठिरः भवनं प्रविश्य भीमादिनां भ्राणां पुरतः द्रौपदीं प्रति तत् सर्वे वृत्तान्तमकथयत् ) । स० - वने सन्निवसन्तीति वनसन्निवासिनः तेषां वनसन्निवासिनाम् ( उपपद समास ) | आत्ता सत्क्रिया येन सः आत्तसत्क्रियः तस्मिन् आत्तसत्क्रिये ( बहु० ) । महीं भुङ्क्ते इति महीभुक् तेन महीभुजा ( उपपद समास ) | कृष्णायाः सदनम् इति कृष्णासदनम् ( तत्पु० ) । अनु पश्चात् जायते ये ते अनुजाः ( उपपद समास ), अनुजानां सन्निधिः अनुजसन्निधिः तस्मिन् अनुजसन्निधौ ( तत्पु० ) । - ईरयित्वा - ईर् + णिच् + क्त्वा । आचचक्षे-आङ् + ख्या (चक्षू ) + लिट्, अन्यपुरुष, एकवचन । 'पत्यौ गते' में 'यस्य च भावेन भावलक्षणम्' से सप्तमी है । व्या० घण्टापथ — इतीति । वनसन्निवासिनां पत्यौ वनेचराधिप इति गिरम् ईरयित्वोक्त्वा आत्तसत्क्रिये गृहीतपारितोषिके गते याते सति ! 'पुष्टिदानमेव चाराणां हि वेतनम् । ते हि तल्लो भान्स्वा मकार्येष्वतीव स्वरयन्ते' इति नीतिवाक्यामृते । अथ महीभुजा राज्ञा कृष्णासदनं द्रौपदीभवनं प्रविश्य अनुज - सन्निधौ तत् वनेचरोक्तं वचो वाक्यं आचचक्षे आख्यातम् । अथवा कृष्णेति पदच्छेदः सदनं प्रविश्यानुजसन्निधौ तद्वचः कृष्णाचचक्षे आख्याता । चक्षिङो दुहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ||२६|| निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसाय दीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥ २७ ॥ अ० - ततः द्रुपदात्मजा द्विषतां सिद्धिं निशम्य ततस्त्याः अपाकृतीः विनियन्तुम् अक्षमा ( सती ) नृपस्य मन्युव्यवसायदीपिनीः गिरः उदाजहार । श० -- ततः तदनन्तर, उसके ( = युधिष्ठिर के कहने के ) बाढ़ । द्विपतां = शत्रुओं ( कौरवों) की । सिद्धिं वृद्धि, समृद्धि, उन्नति, सफलता को । निशम्य = सुनकर । द्रुपदात्मजा = (राजा) द्रुपद की पुत्री, द्रौपदी । ततस्त्याः =उनसे

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126