Book Title: Kiratarjuniyam
Author(s): Mardi Mahakavi, Virendrakumar Sharma
Publisher: Jamuna Pathak Varanasi

View full book text
Previous | Next

Page 113
________________ ११० किरातार्जुनीयम् त्युक्त्वा द्रौपदी युधिष्ठिरं प्रतीफाराय प्रेरयति । हे राजन् ! यतो हि भवतः अस्माकं च इयं दुर्दशा शत्रुकृताऽस्ति अत एव मम मनसि महान् विषादः वर्तते । शत्रकृता ईदृशी दुर्दशा मनस्विनां कृते अपमानजनिका भवति । शत्रभिः अविनवलसम्पदा मनस्विनां कृते पराजयोऽपि हर्ष हेतुः भवति । भाग्यवशादागता विपत् सोढुं शक्यते किन्तु मानहानिस्तु दुःसहा भवति । अत एव भवता प्रतीकारः विधेयः इत्यर्थः । समासः-द्विषन्तः निमित्तं यस्याः सा द्विषन्निमित्ता (बहु०) । न पर्यासिता अपर्यासिता (नज समास), वीर्यञ्च सम्पञ्च इति वीर्यसम्पदौ (द्वन्द्व), अपर्यासिने वीर्यसम्पदौ येषां ते अपर्यासितवीर्यसम्पदः तेषाम् अपर्यासितवीर्यसम्पदाम् (वह); अथवा वीर्यमेव सम्पत् इति वीर्यसम्पत् (कर्मधा०) अपर्यासिता वीर्यसम्पद् येषां ते (बहु०) तेषाम् । व्या०-उन्मूलयति-उन् + मूल + णिच् + लट् , अन्यपुरुष, एकवचन । टि०- १) जैसे आँधी वृक्ष को जड़ से उखाड़ देती है और वह वृक्ष फल नहीं उत्पन्न कर सकता, उसी प्रकार वर्तमान दुर्दशा ने द्रौपदी के मन को अत्यधिक व्यथित कर दिया है और वह किंफर्तव्यविमूढ हो गई है। उसका धैर्य समाप्तप्राय है । (२) उत्प्रेक्षा, अर्थान्तरन्यास, वृत्त्यतुप्रास-इन अलंकारों की संसृष्टि । घण्टापथ-द्विषदिति । यत् यतः कारणादियं दशावस्था । 'दशावर्त्ताववस्थायाम्' इति विश्वः। द्विषन्तो निमित्तं यस्याः सा द्विषन्निमित्ता शत्रकृता । 'द्विषोऽमित्रे' इति · शतृप्रत्ययः । ततः मे मनः समूलं साशयं उन्मूलयतीव उत्पाटयतीव । दैविकी त्वापन्न दुःखायेत्याह-परैरिति । परैः शत्रुभिः अपर्यासिता अपर्यावर्तिता वीर्यसम्पत् येषां तेषां मानिनां पराभवो विपदप्युत्सव एवेति वैधयेणार्थान्तरन्यासः। मानहानिर्दुःसहा न त्वापदिति भावः ॥४१।। विहाय शान्ति नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । वजन्ति शनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः॥४२॥ ___ अ०-2) नृप! शान्ति विहाय विद्विषां वधाय तत् धाम पुनः सन्वेहि। प्रसीद । निःस्पृहाः मुनयः शत्रुन् अवधूय शमेन सिद्धिं व्रजन्ति, भूभृतः न ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126