Book Title: Kavyadarsh Author(s): Jivanand Vidyasagar Bhattacharya Publisher: Kalikata Rajdhnyam View full book textPage 9
________________ प्रथम: परिच्छेदः । इदमन्वं तमःकृत्स्नं जायेत भुवनवयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ ४ ॥ आदिराजयशोविम्बमादर्श प्राप्य वाङ्मयम् । तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ ५॥ इदमिति । यदि शब्दः आह्वयः अभिधानं यस्य तत् शब्दनामकं वानयमित्यर्थः ज्योतिः तेज:प्रकाशकखरूपधर्मवलेन वानये तथालारोषः । प्रासंसारं जगत् अभिव्याप्य न दीप्यते न विराजते तदा इदं कृत्स्रं सर्व भुवनानां स्वर्गमर्त्यरसातलानां चयम् अन्धं तमः गाढ़ान्धकारव्याप्तमिति यावत् जायेत सूर्योदयाभावे इव वागभावे जगत् अन्धकारमयमेव स्यात् वाग्भिरेव सर्वेषां ज्ञानलाभादिति भावः । एतेन भस्य प्रयोजनं वाग्व्यवहाररूपमेव कथितम् । अभिधेयप्रयोजनयोश्च परस्परं प्राप्यज्ञापकत्वादिरूपः सम्बन्धः यथायथमवयन्तव्यः। एषाञ्च ग्रन्यादौ अवश्यवक्तव्यतोता यथा,-ज्ञातार्थ ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते। ग्रन्थादौ तेन वताव्यः सम्बन्धः सप्रयोजनः ॥ इति ॥ ४॥ - इदानीं वाचामुपादेयत्वं दर्शयति, भादिराजेति। श्रादिराजानां मन्विक्ष्वाकुप्रभृतीनां यशोविम्ब कौर्तिरूपं प्रतिविम्बं कर्तृ वामयं कविगणनिबद्ध काव्यप्रबन्धरूपमादर्श दर्पणं प्राप्य . तेषाम् आदिराजानाम् असबिधानेऽपि असत्तायामपि न नश्यति न विलीयते इति खयं पश्य अवलोकयेति राजपुत्रं प्रत्युक्लिः । दर्पणे विम्बपतनं सबिहितानामेव इह तु वामयरूपे दर्पणे असब्रिहितानामपौति उपमेयाधिक्यवर्णनव्यतिPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 286