Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
प्रथमः परिच्छेदः ।
मुक्तकं कुलकं कोषः सङ्घात इति तादृशः । सर्गबन्धाङ्गरूपत्वादनुक्तः पद्यविस्तरः ॥ १३ ॥ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशौर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १४ ॥ विस्तार: निदर्शितः निरूपितः सा विद्या छन्दोज्ञानमित्यर्थः गम्भीरम् अगाधं दुर्गममित्यर्थः काव्यसागरं काव्यरूपमर्णवं तितीर्षूणां तरितुमिच्छूनां नौः तरणिस्वरूपा इत्यर्थः काव्यानां प्रायेण छन्दोबद्धतया तत्पाठार्थिभिः छन्दोज्ञाने अवश्यमेव यतितव्यमिति भावः ॥ १२ ॥
इदानीं महाकाव्यं निरूपयिष्यन् तदवान्तरभेदकथनस्य तदन्तः पातित्वादनुपयोगित्वं दर्शयति, मुक्तकमिति । अत्र इतिपदम् एवमर्थकम् । मुक्तकं श्लोकान्तरनिरपेक्षमेकमेव पद्यम् । तदुक्तम् अग्निपुराणे, मुक्तकं श्लोक. एवैकश्चमत्कारक्षमः सताम् इति । कुलकं पञ्चश्लोकात्मकं पद्यम् । तदुक्तं, दाभ्यान्तु युग्मकं ज्ञेयं त्रिभिः श्लोकैः विशेषकम् । चतुर्भिस्तु कलापं स्यात् पञ्चभिः कुलकं मतम् ॥ इति । कोषः अन्योन्यनिरपेक्षः पद्यसमूहः । उक्तञ्च, कोषः श्लोकसमूहस्तु स्यादन्योन्यानवेक्षक इति । सङ्घातः प्रत्येकपरिसमाप्तार्थकपद्यैः कथासमाप्तिः । तदुक्तं, यत्र कविरेकमर्थं वृत्तेनैकेन वर्णयति काव्ये 1 सङ्घातः स निगदितो वृन्दावनमेघदूतादिरिति एवं तादृशः तथाविधः युग्मकादिश्च पद्यविस्तरः पद्यानां विस्तारः सर्गबन्धस्य महाकाव्यस्य अङ्गरूपत्वात् अवयवस्वरूपत्वात् अनुक्तः न प्रदर्शित इत्यर्थः ग्रन्थविस्तारभिया इति भावः ॥ १३ ॥
सम्प्रति महाकाव्यं निरूपयति सर्गबन्ध इत्यानिना । सर्गेण

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 286