Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 15
________________ प्रथमः परिच्छेदः । विप्रलम्भे विवाहेश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १७ ॥ अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १८ ॥ श्रोतॄणामुन्मुखीकरणं स्यादित्याशयेनाह नगरेत्यादि । नगरं बहुसमृद्धजनाकीर्णः प्रदेश: अर्णवः समुद्रः शैलः पर्वतः चन्द्राकोंदयः चन्द्रसूर्य्ययोरुदयः उपलक्षणमेतत् अस्तमनमपि, एतेषां वर्णनैः उद्यानसलिलयोः क्रौड़ा मधुपानं रतोत्सव : सम्भोगशृङ्गारः तैः विप्रलम्भैः सम्भोगशृङ्गारात् पूर्ववर्त्तिभिः पूर्वरागप्रभृतिभिः चतुर्विधभावेः विवाहैः परिणयव्यापारः कुमारोदयस्य पुत्रोत्पत्तेर्वर्णनैः तथा मन्त्रः परामर्शः दूतप्रयाणम् आजि: युद्धं नायकस्य अभ्युदयः जयलाभः तैः अलङ्कृतं शोभितं नगरादयो महाकाव्ये वर्णनीया इत्यर्थः । सूर्येन्दुरजनोप्रदोषध्वान्तवासराः । प्रातर्मध्याह्नमृगया शैलत्तुं वनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुवोदयादयः । वर्णनीया यथायोगं साङ्गोपाना अमी इह ॥ १६ ॥ १७ ॥ उक्तन । सन्ध्या असंक्षिप्तं संक्षेपेण न वर्णनौयं सविस्तरमित्यर्थः तथा सति महृदयहृदयङ्गमं भवतौति भावः । रसैः शृङ्गारादिभिः भावैः प्राधान्येनाभिव्यक्तैः व्यभिचारिभिः उद्दुद्दमात्रैः स्थायिभिः रत्यादिभिः तथा देवादिविषयकैः अनुरागैश्च निरन्तरं सङ्गुलं पूर्णम् इति यावत् । अनतिविस्तीर्णैः शास्त्रनियमिताष्टादिभिः तदुक्तमौशानसंहितायाम् । अष्टसर्गात्र तु न्यूनं विंशत्सर्गाच नाधिकम् । महाकाव्यं प्रयोक्तव्यं महापुरुषको र्त्तियुगिति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 286