Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 8
________________ काव्यादमें पूर्वशास्त्राणि संहृत्य प्रयोगानुपलभ्य च । यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम् ॥२॥ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा । वाचामेव प्रसादेन लोकयात्रा प्रवर्त्तते ॥ ३ ॥ सम्प्रति ग्रन्थस्य अभिधेयं निर्दिशन् प्रतिजानीते पूर्वशास्त्राणीति । पूर्वेषां कवीनां भरतादीनां शास्त्राणि काव्यग्रन्दान् संहृत्य संक्षेपेण तेभ्यः सारमाकृष्य प्रयोगान् महाकाव्यादिषु प्रयुक्तान् विषयान् उपलभ्य समालोच्य च अस्माभिः यथासमा यथाशक्ति यथाज्ञानमिति यावत् काव्यस्य लक्षणं स्वरूपं लक्ष्यते ज्ञायते अनेनेति व्युत्पत्त्या लक्षणम् इतरव्यवच्छेदकः असामान्यधर्म इति यावत् क्रियते निर्णीयते । एतेन काव्यमेव ग्रन्थस्य अभिधेयं दर्शितम् ॥ २ ॥ इदानों ग्रन्यस्य प्रयोजनकथनस्य वाचा व्यवहारोपयोगि त्वम् अन्वयव्यतिरेकाभ्यामाह इहेति इदमिति च । इह संसारे शिष्टैः धीरैः । तदुक्तं महाभारत - न पाणि दचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ इति । महेश्वरादिभिः अनुशिष्टानां साधितानां प्रकृतिप्रत्ययादिविभागेन संस्कृतानां तथा शिष्टानां जातिदेशादिविभागेन सिद्धानां प्रचलितानां प्राकृतदेशीयानां वाचामेव प्रसादेन अनुकम्पया साहाय्येनेति यावत् सर्वथा सर्वैः प्रकारैः लोकानाम् उत्तममध्यमाधमभेदेन विविधानां यात्रा व्यवहारः प्रवर्त्तते प्रचलति तत्रोत्तमाः संस्कृतयैव वाचा व्यवहरन्ति मध्यमाः. ततो निकष्टया साधुभाषया, अधमा नौचमाश्रया इति । देशजातिभेदेन एवमेव भाषाव्यवहार इति फलितार्थः ॥ ३ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 286