Book Title: Katantra Vyakaranam Part 03 Khand 01 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 7
________________ प्रस्तावना षडङ्गेषु प्रथमं वाङ्मलानां चिकित्सितम्, वेदानामपि वेदस्वरूपम्, शब्दानुशासनात्मक व्याकरणशास्त्रं शब्दब्रह्मावगमपुरस्सरमपवर्गसाधनाय प्रभवति। महर्षिपतञ्जलिना यथा चित्तगतदोषशमनाय योगसूत्रम्, देहदोषापसारणाय चरकाभिधानं वैद्यकशास्त्रं च प्रणीतमासीत्, तथैव वाग्दोषापनोदाय महनीयं पदशास्त्रं महाभाष्यमपि विरचितम्। एतेन न केवलं रक्षोहागमलघ्वसन्देहार्थमेव व्याकरणमध्येतव्यम्, अपि च मितसारवचोरूपवाग्मित्वाधिगमायापि व्याकरणमवश्यमध्येतव्यं भवति। पूर्वं व्याकरणमष्टधा नवधा चापि प्रसिद्धमासीत्। साम्प्रतमुपलब्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वत-सरस्वतीकण्ठाभरण-शाकटायनसिद्धहैमादिबहुविधव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते-माहेश्वरपरम्परा माहेन्द्रपरम्परा च। तत्र माहेश्वरपरम्परामनुसरन्ति पाणिनीय-चान्द्र-सरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानी माहेन्द्रपरम्पराया: प्रतिनिधित्वमाचरति केवलं कातन्त्रव्याकरणमेव। माहेशी परम्परा प्रत्याहारप्रधाना कृत्रिमरचनायोजनाप्रधाना शब्दलाघवावबोधपरा च प्रतिभासते। माहेन्द्री परम्परा च लोकव्यवहारप्रधाना सती अर्थलाघवमाविष्कुरुते। एवं पाणिनीयव्याकरणप्रक्रिया पर्याप्तं विस्तृता दुरूहा च वर्तते। कातन्त्रव्याकरणप्रक्रिया सारल्यं संक्षेपं च वितनुते। काशकृत्स्नतन्त्रापेक्षया संक्षिप्तत्वात् कातन्त्राभिधानेन लोके विदितं व्याकरणमिदं रचनाकारादिविविधाश्रयवैशिष्ट्यवशात् कलाप-कौमार-मुष्टि-शार्ववर्मिक-दौर्गसिंहीयनामभिरपि विदितवेदितव्यैर्बुधैर्व्यवह्रियते। सुखप्रतिपत्तये प्रवृत्तमर्थलाघवप्रधानमिदं व्याकरणं लोकाभिधान-शिष्टव्यवहार-प्रक्रियालाघव-विवक्षा-आर्षप्रयोग-सर्ववेदपारिषदत्वादिवैशिष्ट्यानि बिभर्ति। वङ्ग-उत्कल-शारदा-भोट-देवनागर्यादिलिपिमयैर्हस्तलेखैादशग्रन्थानां भोटभाषानुवादेन पञ्चचत्वारिंशद्भोटभाषाव्याख्याभिः, जैनाचार्यकृतत्रिंशट्टीकाभिः, गुरुनाथविद्यानिधिसीतानाथाद्याचार्यकर्तृकवङ्गभाष्यटीकाटिप्पणीभिः, एतदाधारितबालशिक्षागान्धर्वकलापव्याकरण-कच्चायनादिव्याकरणैर्मुद्रितश्चापि पञ्चचत्वारिंशत्संख्याकैर्ग्रन्थरत्नैरस्य समृद्धं श्रेयस्करं च वाङ्मयं वीक्ष्य कोऽपि सुधीजनः प्रमोदातिशयमवानुयात् । पूज्यपाददेवनन्दिप्रणीतं जैनेन्द्रव्याकरणम्, अभिनवशाकटायनप्रणीतं शाकटायनव्याकरणम् , हेमचन्द्रप्रणीतं सिद्धहैमशब्दानुशासनं चेति त्रीणि व्याकरणानि असन्दिग्धरूपेण जैनव्याकरणानि मन्यन्ते, जैनाचार्य: प्रणीतत्वात्। परं साम्प्रतं जैनसमाजेन कातन्त्रमपि परमं समादृतम् आत्मसात्कृतं चापि वर्तते। जैनसमा जेन भगवद्ऋषभदेवजयन्तीमहोत्सवPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 564