Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master
View full book text
________________
लोकाः सर्वेऽपि भयभ्रांतास्ततः पालयनं चक्रुः, नगरं च शून्यं जातं. अहं तथा मोहभावतो रक्षिता. पूर्वभवस्नेहेन महामोहेन च श्वेतांजनेनोष्टीरूपेण स्थापिता. प्रतिदिनं च सा राक्षसी मम सारकरणार्थमत्र समागच्छति अतस्त्वं प्रच्छन्मो भव ? यतः सा राक्षसी संप्रत्येव समागमिष्यति. पुनरेकदा सा राक्षसी मया पृष्ठा, हे मातरहमत्रारण्ये एकाकिनी करोमि ? अतस्त्वं मां मारय ? तयोक्तं यदि योग्यं वरमहं लप्स्ये तदा तस्मै त्वामहं दास्यामि
अथ सांप्रतं तस्यागमनवेलास्ति, सा च कदाचिन्मां तुभ्यं दत्ते, तदा त्वयाऽस्या राक्षस्याः पार्श्वदाकाशगामिनी विद्या. समभावा खट्वा, महार्घ्यरत्नपेटिका, समभावे रक्तश्वेतकणवीरकंबे, दिव्यरत्नग्रंथ्यौ च एतानि वस्तूनि माणीयानि करमोचनावसरे, इतिसंकेतं गृहीत्वा मंत्री प्रच्छन्नः स्थितः, इतश्च मनुष्यं भक्षयामीति वदंती राक्षसी समागता. तया च श्वेतांजनेन सोष्ट्रिका कन्या चक्रे ततस्तया राक्षस्या सह वार्त्ती कुर्वत्या स्वयोग्यो वरो याचितः, तदा राक्षस्योक्तं कमपि तव योग्यं वरं न पश्यामि, कन्ययोक्तमहमेव ते योग्यं वरं दर्शयामि. राक्षस्योक्तं तर्ह्यधुनैव त्वां तस्मै ददामि ततः पूर्वसंकेततस्तत्र मंत्री प्रकटीबभूव, राक्षस्यापि स तया सह परिणायितः, कर मोचनावसरे च खट्वादिपंचकं तेन याचितम्, तयापि च तत्सर्वं तस्मै समर्पितम् ततो राक्षसी क्रीडाद्यर्थमन्यत्र जगाम. तदा तथा कन्यया मंत्रयूचे, हेस्वामिन् सांप्रतमावां स्वस्थानं गच्छावः, मंन्त्रिणोक्तं कथं गम्यते ? स्वपुरादिमार्गाऽपरिज्ञानात् ततः कन्ययोक्तं सांप्रतमावाभ्यां रन्तग्रंथिद्वयं गृहीत्वा खट्वायां चोपविश्य श्वेतकंचया सा हन्याः, ततः सा चिंतिते पुरेनेष्यति, यदि च
Scanned by CamScanner

Page Navigation
1 ... 18 19 20 21 22 23 24 25