Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 35
________________ | कामबाणेन विध्यन्ती स्वर्णरेखाशोभितदन्तावलिका कृतवक्रमुखं करशाखायां परिहितमुद्रिका मुहुर्मुहुः प्रपश्यन्ती, शिरोवेण्या ग्रीवायां | पंचवर्णपुष्पमालाधरा च साक्षात्कल्पलवेव शोभमाना धनकुचकुंभमारैरानम्रीभूतहृदया चलन्ती प्रतिपदं स्नेह प्रकाशयन्ती गंभीरना| मिका कृशोदरी नुपुरं रणकारवं वादयन्ती पिकीय प्रियभाषिणी जितेन्द्रियाणामनेकसाइसिकानाश्चापि सचमंजिका, एवंप्रकारा सा गणिकासमा मंत्रिपोजो सर याम मामत्य देशीक बानुकत्रयन्ती मुखेनोच्छ्वसन्ती आलस्यभरणांगं मोटवन्ती कंचुकीबन्धन शिथिलीकुवेती अनेकहावभावविभ्रमादिविलासान कुर्वाणा स्वशानयनाय स्वात्मानं मंत्रिण दयामास । तथाहि हावी मुखविकारः स्यादू, भावश्चित्तसमुद्भवः । विलासो नेत्रजो शेयो, विभ्रमो भ्रूसमुद्भवः ।। १२ ।। मथ नृत्यपूर्वकं हावभावादिविषयासक्तं युवकगणं कुर्वती तां गणिको प्रति सद्गुणसमुद्रो मंत्री जगाद-अये विरूपभाषाभापिणि ! कथमेवं प्रलपसि त्वं केनाहूतासि ? उन्मत्तेव बारम्बार किमर्थमसमंजसं भाषसे ? हे विषनेत्रे ! हे दुष्टालापिनि ! स्वमत्र मा किमपि वद, नाहं त्वया साकं समागमिष्यामि, न किमपि कथयिष्यामि, नैव च कदापि त्वां सेविष्ये । यत:-कश्चम्पति कुलपुरुषः, वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटक-नटविटनिष्ठीवनशरावम् ॥२०॥ या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरतातिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तो भजन्ति गणिकां न विशिष्टाः ।। २१ ।। अपि पजात्यन्धाय च दुर्मुखायच जराजीर्णाखिलांगायच, ग्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय च । पच्छन्तीषु मनोहरं निजयपुर्लक्षमीलवश्रया, पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीप को रज्यते ? २२

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60