________________
| कामबाणेन विध्यन्ती स्वर्णरेखाशोभितदन्तावलिका कृतवक्रमुखं करशाखायां परिहितमुद्रिका मुहुर्मुहुः प्रपश्यन्ती, शिरोवेण्या ग्रीवायां | पंचवर्णपुष्पमालाधरा च साक्षात्कल्पलवेव शोभमाना धनकुचकुंभमारैरानम्रीभूतहृदया चलन्ती प्रतिपदं स्नेह प्रकाशयन्ती गंभीरना| मिका कृशोदरी नुपुरं रणकारवं वादयन्ती पिकीय प्रियभाषिणी जितेन्द्रियाणामनेकसाइसिकानाश्चापि सचमंजिका, एवंप्रकारा सा गणिकासमा मंत्रिपोजो सर याम मामत्य देशीक बानुकत्रयन्ती मुखेनोच्छ्वसन्ती आलस्यभरणांगं मोटवन्ती कंचुकीबन्धन
शिथिलीकुवेती अनेकहावभावविभ्रमादिविलासान कुर्वाणा स्वशानयनाय स्वात्मानं मंत्रिण दयामास । तथाहि हावी मुखविकारः स्यादू, भावश्चित्तसमुद्भवः । विलासो नेत्रजो शेयो, विभ्रमो भ्रूसमुद्भवः ।। १२ ।।
मथ नृत्यपूर्वकं हावभावादिविषयासक्तं युवकगणं कुर्वती तां गणिको प्रति सद्गुणसमुद्रो मंत्री जगाद-अये विरूपभाषाभापिणि ! कथमेवं प्रलपसि त्वं केनाहूतासि ? उन्मत्तेव बारम्बार किमर्थमसमंजसं भाषसे ? हे विषनेत्रे ! हे दुष्टालापिनि ! स्वमत्र मा किमपि वद, नाहं त्वया साकं समागमिष्यामि, न किमपि कथयिष्यामि, नैव च कदापि त्वां सेविष्ये । यत:-कश्चम्पति कुलपुरुषः, वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटक-नटविटनिष्ठीवनशरावम् ॥२०॥
या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरतातिनिकृष्टा ।
कोमला वचसि चेतसि दुष्टा, तो भजन्ति गणिकां न विशिष्टाः ।। २१ ।। अपि पजात्यन्धाय च दुर्मुखायच जराजीर्णाखिलांगायच, ग्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय च । पच्छन्तीषु मनोहरं निजयपुर्लक्षमीलवश्रया, पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीप को रज्यते ? २२