Book Title: Kalpasutrartha Prabodhini Author(s): Rajendrasuri Publisher: Rajendra Pravachan Karyalay KhudalaPage 20
________________ (५) ज्योऽप्येनं पं.रत्नविजयं स्वदफ्तरं समर्प्य दफ्तरी' इतिविरुदप्रदानेन शोभया*कार । ततस्तत्कार्यक्रमो यथावचलितुमलगत् । यदसौ दफ्तरी तच्चालने पटीयानासीत् । अतएवोभयोमिथः सौहार्दमववृधीत्तमाम् । परमेषा भवितव्यता सर्वतो बलीयस्येव जागर्ति, एनामन्यथाकत कोऽपि पुमाञ्छक्तिमान् नाऽभूत्, नो भविता, नैवाऽधुना वर्वति जगत्यामस्याम् । अत माह अवश्यं भाविनो भावा, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः॥१॥ 'यद्भावि तद्भवत्येव ' इति हेतुना पुंसां यहि यादृशी भवितव्यता समेति तर्हि तादृशसंयोगादिलाभेन तथा भवत्येव । यदा च धरणेन्द्रसूरिः पंन्यासप्रमुखपञ्चाशयतिमण्डलीमण्डितः सं० १९२३ वर्षे धन्वनि घाणेरावनगरे चतुर्मासीमकरोत्,तदा सङ्घाऽऽग्रहेण श्रीपूज्याऽऽदिष्टः पंन्यासश्रीरत्नविजयो व्याख्याने सटीकं श्रीभगवतीसत्रं भावनाधिकारे पद्यबद्धं रामचरित्रश्च मेघगम्भीरया गिरा व्याख्यातुमारेभे । तच्छुश्रषया प्रत्यहं सादरी-मुडारा-देसूरी-नाडलाई-बाली-बीजापुरादिनगरनिावसिनो भूयांसो भावुका नरनारीगणा आगन्तुमलगन् । अपूर्वा देशनां श्रावं श्रावं ते सर्वे श्रोतारो मोमुद्यमाना मुक्तकण्ठं प्रशशंसुरेनं पंन्यासम् । इत्थममुं प्रशंसन्तीं प्रत्याहिकी वरीवृध्यमानां श्रोतृजनसंख्यां विलोकमानः प्रशंसां च तत्कृतामसहमानः श्रीपूज्यः कथाप्रसङ्गेन मनोगता मत्सरतां व्यञ्जन् पंन्यासीयां स्तुति रोर्बु यथाशक्ति प्रायतत । परन्तु पाणिपिधानादिना वासरमणे छायेव तद्वचसाऽमुष्य स्तुतिनों न्यरुध्यत । अमुया प्रशंसया दन्दह्यमानं चित्तं बिभ्राणः श्रीपूज्यः परमपवित्रे पर्युषणमहापर्वे बहुमूल्यकमैलेयं (इत्रं) क्रीत्वाऽऽनीतं पंन्यासमदर्शयत, जगौ च दृश्यतामदः परीक्ष्यताश्च साध्यसाधिति ?, तदोवाच सविमर्श पंन्यासः-श्रीपूज्य ! तथ्यं जानीहि, यद्भवति गृह मेधिनां शोभाकरं तदवश्यं यतीनां तदधिपतीनाश्च दूषणकरम् । अत एतद् गर्दभप्रस्रावकल्पमेव मन्तव्यम् , अर्थात् सदपि निषिद्धं वस्तु यतिनामधारिभिरशेपैस्तन्मूत्रादप्यधिकमशुद्धं मन्तव्यमेव । भवान् गच्छाधिपतिर्मूत्वा यदी. दृशममेध्यं सेवितुमिच्छति तत्तु न वरम् । यतो हीहरगर्हिताऽऽचरणेन गच्छमर्यादा सर्वथोच्छिन्नतामेव व्रजति । इति पंन्यासोक्तिमाकर्ण्य प्रथमोद्भूतप्रभूतरोषपूर्ण मनाः सन्नेव स्फोटोपरि स्फोटेनेव पुनरीदृशमर्मभेदिवचसा प्रवृद्धकोपानल १ यो हि योग्यग्रामादौ चतुरो मासान् स्थातुं यतीनादिशेत् , अपराधिनाममीषामुचितं दण्डयेत, कस्मैचित्पंन्यासोपाध्यायाधुपाधिप्रदाने प्रमाणपत्रं वितरेत् , श्रीपूज्यस्याऽऽयव्ययकोषांश्च प्रबन्धयेत, स एव 'दफ्तरी' निगद्यते । सम्मान्यते चैष तत्संप्रदाये महामात्यसाम्येन । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 408