________________
(५) ज्योऽप्येनं पं.रत्नविजयं स्वदफ्तरं समर्प्य दफ्तरी' इतिविरुदप्रदानेन शोभया*कार । ततस्तत्कार्यक्रमो यथावचलितुमलगत् । यदसौ दफ्तरी तच्चालने पटीयानासीत् । अतएवोभयोमिथः सौहार्दमववृधीत्तमाम् । परमेषा भवितव्यता सर्वतो बलीयस्येव जागर्ति, एनामन्यथाकत कोऽपि पुमाञ्छक्तिमान् नाऽभूत्, नो भविता, नैवाऽधुना वर्वति जगत्यामस्याम् । अत माह
अवश्यं भाविनो भावा, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः॥१॥
'यद्भावि तद्भवत्येव ' इति हेतुना पुंसां यहि यादृशी भवितव्यता समेति तर्हि तादृशसंयोगादिलाभेन तथा भवत्येव । यदा च धरणेन्द्रसूरिः पंन्यासप्रमुखपञ्चाशयतिमण्डलीमण्डितः सं० १९२३ वर्षे धन्वनि घाणेरावनगरे चतुर्मासीमकरोत्,तदा सङ्घाऽऽग्रहेण श्रीपूज्याऽऽदिष्टः पंन्यासश्रीरत्नविजयो व्याख्याने सटीकं श्रीभगवतीसत्रं भावनाधिकारे पद्यबद्धं रामचरित्रश्च मेघगम्भीरया गिरा व्याख्यातुमारेभे । तच्छुश्रषया प्रत्यहं सादरी-मुडारा-देसूरी-नाडलाई-बाली-बीजापुरादिनगरनिावसिनो भूयांसो भावुका नरनारीगणा आगन्तुमलगन् । अपूर्वा देशनां श्रावं श्रावं ते सर्वे श्रोतारो मोमुद्यमाना मुक्तकण्ठं प्रशशंसुरेनं पंन्यासम् । इत्थममुं प्रशंसन्तीं प्रत्याहिकी वरीवृध्यमानां श्रोतृजनसंख्यां विलोकमानः प्रशंसां च तत्कृतामसहमानः श्रीपूज्यः कथाप्रसङ्गेन मनोगता मत्सरतां व्यञ्जन् पंन्यासीयां स्तुति रोर्बु यथाशक्ति प्रायतत । परन्तु पाणिपिधानादिना वासरमणे छायेव तद्वचसाऽमुष्य स्तुतिनों न्यरुध्यत । अमुया प्रशंसया दन्दह्यमानं चित्तं बिभ्राणः श्रीपूज्यः परमपवित्रे पर्युषणमहापर्वे बहुमूल्यकमैलेयं (इत्रं) क्रीत्वाऽऽनीतं पंन्यासमदर्शयत, जगौ च दृश्यतामदः परीक्ष्यताश्च साध्यसाधिति ?, तदोवाच सविमर्श पंन्यासः-श्रीपूज्य ! तथ्यं जानीहि, यद्भवति गृह मेधिनां शोभाकरं तदवश्यं यतीनां तदधिपतीनाश्च दूषणकरम् । अत एतद् गर्दभप्रस्रावकल्पमेव मन्तव्यम् , अर्थात् सदपि निषिद्धं वस्तु यतिनामधारिभिरशेपैस्तन्मूत्रादप्यधिकमशुद्धं मन्तव्यमेव । भवान् गच्छाधिपतिर्मूत्वा यदी. दृशममेध्यं सेवितुमिच्छति तत्तु न वरम् । यतो हीहरगर्हिताऽऽचरणेन गच्छमर्यादा सर्वथोच्छिन्नतामेव व्रजति । इति पंन्यासोक्तिमाकर्ण्य प्रथमोद्भूतप्रभूतरोषपूर्ण मनाः सन्नेव स्फोटोपरि स्फोटेनेव पुनरीदृशमर्मभेदिवचसा प्रवृद्धकोपानल
१ यो हि योग्यग्रामादौ चतुरो मासान् स्थातुं यतीनादिशेत् , अपराधिनाममीषामुचितं दण्डयेत, कस्मैचित्पंन्यासोपाध्यायाधुपाधिप्रदाने प्रमाणपत्रं वितरेत् , श्रीपूज्यस्याऽऽयव्ययकोषांश्च प्रबन्धयेत, स एव 'दफ्तरी' निगद्यते । सम्मान्यते चैष तत्संप्रदाये महामात्यसाम्येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org