________________
(४) अथैष गुर्वादिष्टः स्वगुरुसखस्य खरतरगच्छीयस्य मूकीसरस्वतीतिविरुदधारकस्य यतेः सागरचन्द्रस्य पार्श्वे पञ्चवर्षाणि न्युष्य व्याकरणे-सभाष्यसिद्धान्तकौमुदीप्रमुखान् , न्याये-सिद्धान्तमुक्तावली-गौतमसूत्र-रत्नकरावतारिकाप्रमुखान् , काव्येरघुवंशादिमहाकाव्यानि, कोशे-चाऽमराभिधानचिन्तामणिप्रभृतीन् , अलङ्कारे-कुवलयानन्दसाहित्यदर्पणकाव्यकल्पलताप्रमुखान् , ज्योतिषे-नैमित्तिकफलग्रन्थाननेकानधीत्य तपोगच्छाचार्यश्रीपूज्यदेवेन्द्र सूरेश्चाऽऽगमानशेषानध्यैष्ट । अमुष्य योग्यता प्रागल्भ्यश्चाऽऽलोक्य श्रीदेवेन्द्रसूरिर्वक्रमे नवाऽधिकैकोनविंशतिशततमेऽब्दे वैशाखसिततृतीयायामुदयपुरनगरे हेमविजयेन बृहद्दीक्षां पंन्यासपदं चाऽस्मै महामहेन दापयानके।
३ धरणेन्द्रसूरेविद्याभ्यासस्तेन साकमैलयेविषये विवादश्च.-----
स्वान्तसमये च श्रीपूज्यदेवेन्द्रमुरिरेनमेवमुवाच-वत्स रत्नविजय ! यद्यप्यहं निजासने धीरविजयमतिष्ठिपम् , धरणेन्द्रसूरिरित्यभिधानं च तस्याऽकरवम् , परमयमधुनाऽनभिज्ञो वर्त्तते । अतस्त्वया सम्यगाप्तधियाऽध्याप्य सुविद्वान् गच्छीयमर्यादाऽभिज्ञश्च विधातव्यः । यदेतद्गच्छीयसमस्तभारस्त्वय्येव न्यस्यते । ततो धरणेन्द्रमूरिमभ्यधात्-त्वया रत्नविजयपंन्यासस्य पार्श्व एवाऽध्येतव्यम्, सदैतच्छिक्षायां वर्तितव्यम् । यस्यां मर्यादायां वर्तितुमादिशेत्तां मात्यक्रमीः । इत्युभाभ्यां तच्छिक्षणे शिरो धारिते श्रीपूज्यः समाधिनाऽनशनं विधाय राधनपुरे निजदेहमजहात् ।
अथ पं०रत्नविजयः प्रथमं गुरुदत्ताश्चमत्कृतिकरीः सकला विद्याः संसाध्य, प्रदर्य च जोधपुरबीकानेरनरेशी महतीमद्भुत चमत्कृतिमाभ्यां यतिसिद्धिविजयहेतुकचिरपरिहतस्वर्णयष्टि-च्छत्र-चामर-यष्टिधर-याप्ययान-महावस्त्रादिसर्वं सदैवैषा पद्धतिरित्थं प्रचलेदेतत्पट्टपरम्परायामग्रेतनः कोऽपि नरपतिनान्यथा कुयोत्, इति तन्नरपतिद्वयमुद्राङ्कितप्रमितिपत्रेण सह धरणेन्द्र सूरये दापयामास । तदनु तदादिपोडशयतिवरानन्यानपि धारणादिगुणयुक्तान् सर्व पाठयित्वा स्वपरसमयविज्ञानकरोच्च । अथैतत्प्रत्युपचिकीः श्रीपू
१ अस को सं० १८२६ तमे वर्षे वैशाखसिततृतीयाचन्द्रवासरे मरुदेशीयसोजतनगरे गणधरचोपड़ागोत्रीय-श्रेष्ठिसुन्दरलालस्योपकेशवंशीयस्य गृहपत्न्याः श्रीदेव्याः कुक्षेरजनिष्ट श्रीलालनामा । सं०१८४२वर्षे सहःशुक्ल द्वितीयागुरौ मरौ बीकानेरपुरि श्रीदेवेन्द्रसूरिपार्श्व दीक्षामादाय शास्त्राण्यधीत्य विद्वत्तामधिगम्य सं० १८५३वत्सरे माघशुक्लपञ्चम्यामुदयपुरीयमहाराणादत्तं 'कार्मणसरस्वती' इत्युपाधिमधिगम्य गच्छे च शैथिल्यप्रवेशमुदीदय सं० १८९३वर्षे निजश्रेयसे क्रियामुद्दधार । तत: सं० १९०६ तमे वत्सरे कार्तिक्यां पूर्णिमायां मरुधरदेशीये जोधपुर-नगरे स्वर्गमध्यवात्सीत् । अभूञ्चैष महाविद्वांस्तपस्विमुख्यः क्रियापात्रं बहुधा काननस्थायी च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org