________________
यत्र धर्मे विषयेभ्यो विरागः, कषायाणाश्च त्यागः, गुणेष्वनुरागः, क्रियासु सर्वज्ञोदितकर्मस्वप्रमाद-आलस्यराहित्यं जायेत, स एव धर्मः शिवसुखस्योपायो दाता । अतः संसारे मातापितृकुटुम्बादिसम्भूतसुखदुःखादिकं सर्वमतात्त्विकं मोहनीयकर्मजातमेवेनि मन्वानः पुमानीन्द्रियमनसोर्जिगीषया वैराग्यभावनमेव समाश्रयीत, वर्वति चेदमेव मानुष्यसाफल्याय सुखसाधनम् ।
२ गुरुसमागम-दीक्षाऽऽदान-शास्त्राऽभ्यासाःअमुष्मिन् संसारे यद्येव लोकानां भाग्यमुदयते तद्देव साधनमप्यनुकूलमायातीति नियमानुसारेण रत्नराजस्यापि मानसे वैराग्यभावनायां समुत्पन्नायां तपोगच्छनेता श्रीविजयप्रमोदसूरिज्येष्ठगुरुभ्रातृहेमविजयादिमुनिगणैः सत्रा तत्र भरतपुरे समाजगाम । श्रीसको महताऽऽडम्बरेण तस्य स्वागतं वितत्य बह्वाग्रहेण तत्रैव तच्चातुर्मामीमप्यचीकरत । एतर्हि सत्समागमे हेमविजयाच्चन्द्रिका जैनकाव्यानि च कतिपयान्यध्यगीष्ट रत्नराजः । ततोऽसौ मनसि व्यमृशत्-यः पुमानिह सुकृतशतलभ्यं मानुष्यमधिगम्य स्वपरहितकरं नो साधयति तस्य जननमजागलस्तनमिव नैष्फल्यमेवाञ्चति, जनुस्तु तस्यैव साफल्यमियति येन स्वं त्यागनिकषोपर्यारोप्यते । अतो मयापि ज्ञानस्य सारं विरतिः' इतिसूत्रानुसाराच्छाशनसमाजधर्माणां स्वस्य च कन्याणचिकीर्षुणा त्यागकषोपरि चटितव्यमेव । यदुन्नता उद्यमवन्तो जन्तवः स्वेष्टविमृष्टकृत्यविधाने मनागपि कालविलम्ब नो कुर्वन्तीतिहेतुना रत्नराजः स्वबन्धुवर्गादेरादेशमुरीकृत्य चतुरधिकैकोनविंशतिशततमाब्दे वैशाखशुक्लपञ्चमीभृगौ श्रीमद्विजयप्रमोदसूरिनाम्नो गुरुभ्रातवर्यश्रीहेमविजयमुनिपुङ्गवपार्श्वे पारमेश्वरी दीक्षा जग्राह । प्रथयामास च सङ्घानुमतिको गुरुरन्वर्थ ' रत्नविजय' इति तन्नाम ।
१ एतस्य जनुर्मेदपाटीये डबोकग्रामे गौडब्राह्मणस्य परमानन्दस्य सुशीलाया भार्यायाः पार्वत्याः कुक्षितो वैक्रमे १८५०वर्षे चैत्रिकशुक्ल प्रतिपद्यभवत् । पप्रथे च प्रमोदचन्द्राभिधानेन १८६३तमे हायने वैशाखसिततृतीयायां दीक्षितस्याऽमुष्य वैक्रमे १८६३तमे चाऽब्दे ज्येष्ठसितपश्चभ्यां सूरिपदमजायत । विक्रमीये १९३४तमेऽब्दे मध्वसितदर्श धन्वन्याहोरपुयाँ स्वरगच्छत् । प्रातः सायश्चैष प्रतिक्रमणप्रतिलेखने यावदन्तं नैयत्येन कुर्वन् यथासमयमेव सकलयत्याचारपरिपालको बभूव ।
२ राजेन्द्रसूरीश्वरजीवनप्रभाप्रमुखभाषामयग्रन्थेष्वेतद्दीक्षाऽब्द १६०३यदुल्लिलेख, तत्तु धन्वदेशीयप्रचलितश्रावणादिमासगणनयाऽवगन्तव्यम् । तत्र हि श्रावणाऽसितप्रतिपदमारभ्यवत्सरारम्भो मन्यते । प्रख्यातिमञ्चण्डूपञ्चाङ्गे तु चैत्रसितपक्षतेरेवाऽब्दगणनममानि । अत एतदनुसारेण दीक्षाब्द १६०४ इत्येव सामञ्जस्यमहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org