________________
(२) श्रेष्ठिन ऋषभदासस्य सुशीलायाः पत्न्याः केसर्याख्यायाः कुक्षेरुदियाय । तत एकादशेऽहनि महामहं वितन्वान: कुटुम्बवर्गाश्च सहोत्साहन सम्भोज्य ' रत्नराज' इति तन्नाम धृतवान् पित्रादिवर्गः। अमुष्य ज्यायान् बन्धुर्माणिकचन्द्राऽऽख्यः, कनीयसी भगिनी च प्रेमाऽभिधानाऽऽसीत् । असकौ हि मातापित्रोः सुप्रबन्धेन दशद्वादशाद्विकाऽवस्थ एव व्यापारिकाऽशेषशिक्षणे नैपुण्यमाससाद । न तदेव, सहैव जीवविचार-नवतत्त्व-दण्डक-लघुसंग्रहणी-बृहत्संग्रहणीप्रमुखानू कतिपयग्रन्थानथैः सहाऽभ्यस्तवान् । अथ पित्रोरादेशेन सबन्धुरसौ पद्गएवाऽर्बुदाचल-गोडवाडप्रान्तीयपञ्चतीर्थी श्रीकेसरियानाथयात्राश्च व्यधात् । तदनु 'देशाटनं पण्डितमित्रताच' इति नीतिवाक्यं मनःपथमानीय वङ्गदेशमागच्छन् सिंहलद्वीपमानश्च सः। तत्र च स्वैरं व्यापृत्य समधिगतवानेष धनाधिक्यम् । ततोऽचिरादेव प्रस्थाय सुखेन कलकत्तादिमहापुर्याः श्रियं पश्यन् सह बन्धुना निजसदनमायाश्चके । तत्र च वार्धक्यमितयोः पित्रोः सेवामेव मुख्यतया विदधानावुभौ निजसदनेऽतिष्ठताम् । ततः क्रमेण तयोः स्वर्यातयोः प्राधान्येन धर्मध्यानादिकमनुतिष्ठन्तावास्तामुभौ । तदवसरे रत्नराजचेतस्युदपद्यत किलेदृशी भावना-यदत्र संसारे परमार्थविचारणायां सर्व हेयमेव विलालसीतितराम् । यतो भोगेषु रोगस्य, कुलेषु विनाशस्य, लक्ष्मीषु नृपतस्करादेः, शास्त्रेषु वादस्य, मौनत्वे दैन्यस्य, बलेष्वरातेः, सौन्दर्येषु जरसः, गुणेषु दुर्जनस्य, शरीरेषु मृत्योभीतिजागर्तितराम् । अतएव निर्भीकमेकं वैराग्यमेवास्ति, एतद्धि अनन्तपापराशि विनाश्य शाश्वतं सुखं प्रददाति । उक्तश्वाऽऽगमे
जत्थ विसयविराओ, कसाचाप्रो गुणेसु अणुरायो। किरियासु अपमानो, सो धम्मो सिवसुहोवाओ ॥१॥
वैदेशिको रत्नपरीक्षक एक हीरकं नृपतेरधिसभमानिन्थे। तच्च नृपाने निधाय चख्यौ-राजन् ! • एतस्य गुणमूल्ययोर्यथावद्वधारणं क्रियताम् ? ' तदैव राजा सर्वान् रत्नपरीक्षकानाकार्य तददीहशत् । तदालोकमालोकं ते सकला बाढं प्रशंसितुं लग्नाः । तदवसरे केनापि हेतुना समाया पासूत्रेष्ठिनं तदप्राक्षीद्राजा । सोऽवदत्-स्वामिन् ! अस्त्येतदमूल्यम् , परन्तु य एनं धारयते तस्य स्त्री मेम्रीयते, इत्येको दोषोऽपि महीयानस्ति, संशयश्चेदेन रत्नपरीक्षकमेव पृष्ट्वा निश्वीयताम् । ततो राज्ञा पृष्टः श्रीमाल उवाच-राजन् ! एष पासश्रेष्ठीव रत्नपरीक्षकोऽन्यः कोऽपि जगत्यां नैवास्तीत्यसंशयं निगदामि, यहिनादेतन्मत्पार्श्वे तिष्ठति तद्दिनाद् द्वे स्त्रियो मेऽम्रियेताम् । अत एतद्विकीय तृतीयां चिकीर्षामि । तदाकर्ण्य राजा पासूमाख्यत्-पासूजी ! त्वादृशस्त्वमेवासि । अस्तु, तद्दिनादेनं 'पारखजी' शब्देनैवाऽऽह्वातुमलगद्राजा । तदनु सर्वत्र तेनैव नाम्नाऽसौ प्रासिध्यत् । इत्थं पासूश्रेष्ठिनः पारखगोत्रमुदपद्यत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org