________________
ज्वालाजटालः श्रीपूज्यस्तषेवमाख्यत्-पंन्यासजी ! यथोपदिशसि मा शक्तिश्चेत्स्वयमपि श्रीपूज्यतामधिगम्य तथाऽऽचरेस्तयैव सत्यं विद्यामहमपि, अन्यथा वाङ्मात्रेण तथोपदेष्टारस्तु फाल्गुने बालका इव पदे पदे सन्त्येव, तैः किं सिध्येत् ? । ईदृक्षाः परोपदेशनमात्रसारास्तु 'गर्जति शरदि न वर्षति, वर्षति वर्षासु निःस्वनो मेघः।' 'कहते सो करते नहीं, मुंहके बड़े लवार ।' इत्यायुक्तेरुदाहरणमेव जायन्ते ।
४ धरणेन्द्रसूरेगच्छीयशिक्षा, श्रीपूज्यपदधारणम्', क्रियोद्धारश्च--
अथ गम्भीरप्रकृतिक पंन्यासरत्नविजयस्तदाकर्ण्य मनसि दध्यौ-यदत्र संसारे प्रायेण सकला अपि जना अधिकारमदेनाऽन्धतामापन्ना उत्पथेनैव चलन्तः सर्व तृणाय मन्यमाना निजमर्यादामपि लुम्पन्त्येव । अत एते योग्यशिक्षा प्रदाय मयाऽवश्यं सुपथि समानेतव्याः। ततो योग्यतिभिः सत्रा भाद्रसितद्वितीयायामसौ रत्नविजयस्ततः प्रस्थाय क्रमश आहोरनगरे स्वगुरोः श्रीमद्विजयप्रमोदम्रेरभ्यर्णमागात् । अभ्यधाच श्रीपूज्येन साकं यथाजातमशषवृत्तान्तम् । गुरुरपि योग्याऽयोग्यसमयं विमृश्य श्रीसंचाऽऽरन्धमहामहेन वैक्रमे १९२४ तमेऽब्दे वैशाखसितपश्चभीबुधवासरे पंन्यासरत्नविजयस्य निजपरम्पराऽऽगतमूरिमन्त्रं प्रदाय 'श्रीविजयराजेन्द्रसूरिः' इत्यारख्यां दत्त्वा श्रीपूज्यपदं ददिवान् । तयेव ठकुर श्रीयंशवन्तसिंहो श्रीपूज्यायाऽस्मै स्वर्णयष्टिचामर-च्छत्र-याप्ययान-सूर्यमुखी-चन्द्रमुखी (किरणीया )-महावस्त्र ( दुशाला) प्रमुखमार्पिपच्च । अथाऽसौ श्रीपूज्य श्रीमद्विजयराजेन्द्रसूरीश्वरः सुयोग्ययतिमण्डलपरिवृतो गुवाज्ञया ततश्चलित्वाऽधिमार्गसम्प्राप्तनगरपामादौ श्रीसद्धेवावन्द्यमानः क्रमेण मेदपाटीय-शम्भुगढमागतवान् । तत्र फतहसागरनामायतिवर्यस्तत्रत्येन श्रीसङ्घन पट्टमहामहं कारयित्वोदयपुरमहाराजस्य कार्यकर्ता श्रीपूज्योचितस्वर्णयष्ट्यादिसकलोपस्करमस्मा उपहारितवान् । तदनन्तरं ततः प्रस्थितोऽसको प्रतिग्रामे नगरे च भावुकैः 'खमासमणा' कारयंस्तत्कृतपूजोपहरणादिकमाददानो जावरासङ्घविहिताऽत्यन्ताग्रहण मालवदेशीयं जावरानगरमागत्य १९२४ वर्षे चातुर्मासमकार्षीदेषः। व्याख्याने श्री
१ अयं हि विक्रमीये १८९२ वर्षे तपस्यशुक्लनवम्यां चांपावतकुलविभूषणठक्कुरश्रीशक्तिदानसिंहस्य गेतापुरोद्भूतहाडीजीसमाख्यायाष्ठक्कुराण्याः कुक्षेरुदपद्यत । विक्रमीये १८९६ वर्षे चतुर्वर्षीयानेव सहःकृष्णाऽपरदर्शतिथ्यां भृगुवासरे पितुरासनमध्यास्त । अभू. चैतस्य लालसिंहः सूनुः, पुत्री च रतनकुंवरसमाख्या। आहोरीयस्थानञ्च योधपुरराज्यान्तर्गतसमस्तसरायतसरदारगोष्ठयामेकमस्ति । योधपुरराज्यतः प्रजावर्गयनिग्रहानुग्रह (फोजदारीदीबानी ) करणमप्ययाञ्चक्रे किलैषः । इत्थमत्र महीयसी प्रतिष्ठामधिगम्य वि. १९२६ वर्षे माधवसितद्वितीयायां स्वरगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org