________________
(७) भगवतीसूत्रं सटीकं भावनाधिकारे पद्यात्मकं पाण्डवचरित्रश्च वाचितुं लग्नः । तत्र जन्नाणी-मीठालालप्रमुखानां श्राद्धानां मुखैरेतत्प्रशंसामुच्चैस्तरामाकण्यैकदा तत्रत्यो यवनराज-नबाव 'गोस्तमहम्मदखां' एनं श्रीपूज्यमेकम्प्रश्नं प्रच्छयाञ्चकार-'महाराज! अाहेतं धर्ममुररीकृतवतो मम हस्तेन दत्तं खाद्यपेयादिकं भोक्तुं त्वमर्हसि न वा ?' श्रीपूज्याचार्यरुदतारि-परमार्थदृशा सर्वेष्वात्मतत्त्वमेकमेव पश्यामा, ये खल्वज्ञानिनस्त एव संसारदशायां पौद्गलिक भेदेन जीवेषु भिन्नतां जानन्ति । अतोऽहं जातित्वमनपेक्षमाणः सर्वैरप्पाहतं धर्म जुषमाणे_तु. रप्यधिको मैत्रीमेव भावयामि । व्यवहारशा तु चेदेतेऽस्पृश्यजातीया न भवेयुस्तर्हि तद्धस्तप्रदत्त भक्ष्यपेयाऽशनपानयोरपि कामपि बाधांनाऽवलोको' इत्थं निष्पक्षपातमत्तरं श्रुत्वा यवनाधीशः प्रासदत्तमाम्, उपाहरच्चाऽस्मै स्वर्णयष्ट्यादिका सकलां |पूज्यां सामग्रीम् ।
___ इत्थमाद्याऽद्धे प्रतिस्थाने राजभिर्महाराजैः सबैश्च महती सत्कृतिमसावलमत, तां दर्श दर्श श्रावं श्रावं च धरणेन्द्रसूरिगताऽहङ्कारो दध्यौ-चेदधुनाऽमुना राजेन्द्रमरिणा सार्ध नम्रीभूः। मैत्रीं न कुर्यां तयिती महती क्षतिभविष्यत्यतो मयकाऽधुना येन केनोपायेन सैव कर्तव्या। इतोऽन्या में श्रेयस्करी गतिनास्ति, इति सुचिरं विमृश्य यतिसिद्धकुशल-मोतीविजयो स्वहस्तलिखितं पत्रं प्रदाय मुखेन च सम्बोध्य जावरासङ्घपार्श्वे प्रैषीद्धरणेन्द्रसरिः । तत्र च तत्पत्रं वाचयित्वा कियन्तोऽग्रेसरास्ताभ्यां सहैव श्रीसरे पार्श्वमित्वा, विधाय च वन्दनां समासत । तदोवाच सिद्धकुशलः–'स्वामिन् ! महीयानसि, गच्छोन्नत्यवनत्योश्चिन्तापि त्वय्येव गुरुणा न्यासि, पितेव पुत्रस्य शिष्यस्याप्यपराधं सहित्वा शिक्षयित्वा च सद्गुरुरेनं सत्पथं नाऽऽनयेत किम् ?, आनयेदेव । अतस्त्वादृशां सद्गुरूणां स्वमहिम्नाऽपरां सृष्टिं निर्माय तस्य हानिकरणमयुक्तमेवाऽस्ति । स्वामिन् ! कोऽस्मि कीदृशीच योग्यतामापन्नोऽस्मीत्यपि विचार्यताम् ।' इत्युक्तेरवसाने सूरीन्द्रः समाधत्त-महाभाग! नाऽहं तेन साधं कमपि विरोधं चिकीर्षामि, परन्तु स ते श्रीपूज्यो गच्छमादामत्येति, अतोऽहमवमकरवम् । यद्यसौ सत्पथेन चलेत् , पालयेच्च स्वगच्छमर्यादां तर्हि सर्वमेतदुपाधिभूतमुज्झित्वा स्वश्रेयसे क्रियामेवोद्धर्तास्मि, अत्र मा संशयीथाः । अतस्त्वं याहि, इमां नवसमाचारी तस्मै दर्शय, तत्सम्मतिश्च कारयित्वा पुनस्तामत्राऽऽनय । ततस्तो तामादाय तदन्तिकमागत्य यथाजातवृत्तं निवेद्य, दत्तवन्तौ तत्पत्रिकाम् । श्रीपूज्योऽपि तां वाचयित्वा स्वानुकुलाचावगत्य तत्र च स्व.
१ यत्र नवगच्छसमाचारीपत्रे धरणेन्द्रसूरिः स्वहस्तेन सम्मतिं व्यदधात्तच्चाहोरनगरीये श्रीराजेन्द्रबृहजैनागमज्ञानभंडारे वर्वति । तदनुकरणानि पत्राणि तु जावरारतलामराजगढादिनगरस्थेष्वपि तेषु वर्तन्तेऽयापि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org