________________
(८) हस्ताक्षरं कृत्वा सम्मत्य च तदीयमूरिपदं पुनस्तावेव यतिवरौ तेन सम्मतिपत्रेण सह जावरांगमयाश्चक्रिवान् । अथाऽगतौ तौ तदनुमतीकृतसमाचारीपत्रं श्रीसूरिमदीदृशताम् । तदालोक्य 'अङ्गीकृतं सुकृतिनः परिपालयन्ति' इति नैतिकं वाक्यं साफल्यं नयमानः श्रीमद्विजयराजेन्द्रसूरीश्वरस्तदैव श्रेपूज्यकरी सकलां सामग्री तत्रस्थश्रीसुपार्श्वनाथ जिनेशमन्दिरे समुपहृत्य पुस्तकसंग्रहश्चाऽऽहोरनगरीयज्ञानभाण्डागारे दत्ता पश्चविंशत्यधिकैकोनविंशतिशततमाऽब्द्यां शुच्यसितदशम्यां बुधवासरे श्रीसङ्घाऽऽाब्ध. महामहे जायमाने शुभे सुस्थिरे च लग्ने क्रियोद्धारं कृतवान् । तव धानेरानगरीयो यतिर्धनविजयो मेवाडदेशीयभीडरनिवासी सङ्गीतवार्धियतिः प्रमोदचिरेतावुभावपि श्रीमद्विजयराजेन्द्रसूरिपार्श्वे क्रियोद्धृतिलक्षणां दीक्षामाददाते ।
५ स्वमन्तव्यस्थिरीकरणं सत्यवस्तुस्थितिप्रकाशनश्चप्रथाऽसौ क्रियोद्धतेः परस्तात्प्रथमां चतुर्मासी सङ्घाऽऽग्रहेण मालवीये खाचरोदनगरे चक्रिवान् । तत्र च सङ्घविहितमहामहेन श्रीधनविजयमुनेरुपाध्यायोपाधि वितीय,
१ 'यस्य गुरुपरम्परास्वेकद्वित्रिपट्टाऽवधिकं किञ्चिदाचारशैथिल्ये प्रवृत्तमपि सर्वथा साधुसमाचारी नैवोदच्छिदत् , स स्वयमपि क्रियामुद्धत्तुमर्हति । यस्य तु सप्ताऽयावधिकगुरुपरम्परा शैथिल्यमुपनीय सर्वथैव क्रियां विलुलोप स साम्भोगिकादिगुरुपार्श्वदेव तामुद्धरेत् ।' इति हीरप्रश्नोत्तरादिशास्त्रमर्यादया श्रीमद्विजयराजेन्द्रसूरीश्वरः स्वयमेव क्रियामुदहरत् ।
२ अध्यजायताऽयं किसनगढाभिधमहापुर्यां कङ्कुचोपडागोत्रीयत्य श्रेष्ठिन ऋद्धिकरणस्य भार्याया अचलायाः कुक्षर्विक्रमीयषरणवत्यधिकाऽष्टादशशततमे वत्सरे मधौ मासे शुक्ल पक्ष शशिनि वासरे चतुर्थ्यां तिथ्याम् । ततः प्रहलादनपुरप्रान्तीयधानेरानगरे १९१७ वर्षीये माधवमासे शुक्ले पक्षे गुरौ च वासरे पं० यतिलक्ष्मीविजयपाधै गृहीतदीक्षः, सं० १९२५ कार्तिकसितपञ्चम्यां खाचरोदपुर्या श्रीमद्विजयराजेन्द्रसरेरात्तबृहद्दीक्षस्तदत्तोपाध्यायपदवीं च सहःशुक्लपञ्चम्यामलब्ध । ततो जावरानगरे सं०१६६१ ज्येष्ठशुलैकादश्यां बुधवासरे सौधर्मबृहत्तपोगच्छीयः श्रीसङ्घ आचार्यपदं प्रदाय, श्रीमद्राजेन्द्रसूरेरासनमलङ्कारयामासाऽमुना। मरुदेशीयबागरानगरे च सं०१६७७ नभस्यसितप्रतिपञ्चन्द्रवासरे स्वरगादसकौ । यञ्चाऽस्य जीवनविषये गुर्जरीयभाषामये 'श्रीमद्धनचन्द्रसूरिजी' नामक पुस्तके लल्लुवल्यभदासेन स्वकपोलकल्पितमेव कियदुदलेखि तद्धेयमेव ।
३-असौ सं०१८९८कार्तिकसितपञ्चम्यां मेदपाटीय-भीडरग्रामे शिवदत्तविप्रस्य भार्याया मेनावत्या उदरादजनिष्ट । एतस्य कनीयसी स्वसा रुक्मिणी रघुदत्तो बन्धुश्चाऽऽसीत् । तत्रैव १६१३वर्षे माघशुक्लपञ्चमीगुरौ पं०श्रीभमररुचियतेः पार्श्वे यतिदीक्षां लात्वा सङ्गीतशास्त्राण्यधीत्य तदभिज्ञतामाप । विक्रमीये १९३८ तमे वर्षे शुच्यसितचतुर्दश्यां मालवदेशीये वांगरोदनगरे स्वरध्युवास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org