________________
(९) प्रत्याहिकव्याख्यानवाचनकृत्यं समर्पयामास । स्वयं जैनाऽऽगमीयपश्चाङ्गी बहुश्रुताचार्यप्रणीतग्रन्थाश्चैकेन मनसा दरीदृश्यमानः सत्तर्कवितर्काम्यां बहुधा विमृश्यैवं सिद्धान्तितवान् । तथाहि
१ "वन्दन'शब्दः स्तुतिं नमस्कृतिश्च बोधयत्यतएव देवदेवीनां वन्दनमकार्यमेव समेषां श्रमणानाम् । एवमकारणमेभ्यः साहाय्यप्रार्थनमप्ययोग्यमेव, यदहेतुकाऽवतिनां देवदेवीनां वन्दनं याचनञ्च न्यषेधि शास्त्रकृद्भिः।"
२ "चतुर्थस्तुतौ पापोपदेशधनपुत्रादिपौद्गलिकसुखप्रार्थनकारित्वासामायिकप्रतिक्रमणादिभावानुष्ठाने हेयैव सा । यतो भावानुष्ठाने तत्करणं दोषकृजिनाऽऽदेशभञ्जनकृच्च जायते ।”
३ “जैनागमीयपञ्चाङ्गयनुमृत्या स्तुतित्रय्येव प्राचीनाऽनुमीयते, यत एव पुरा शुद्धाऽऽचरणत्वात्प्रचलिताऽऽसीत्सर्वत्र । अत इयमेव सर्वेविधातव्या । पूजादिकारणविशेषे तु चतुर्थीस्तुतिरप्यागमशास्त्राऽनुदितापि गीतार्थाऽऽचरणया कृता चेन्न हानिकरी सम्भवति ।"
४ " चैत्यवन्दनाऽनन्तरमकारणं शक्रस्तवादिप्रसिद्धपञ्चदण्डक-स्तुतित्रयी-प्रणिधानपाठाश्च यावता सम्पद्यरंस्तावत्कालमेव जिनमन्दिरे स्थेयम् । सति च कारणे ततः परमपि स्थितिः शास्त्रसम्मतैव ।"
५ " शास्त्रमर्यादया प्रथमान्तिमजिनशासनीयसाधुसाध्वीनां यथालब्धं श्वेतं मानोपेतं जीर्णप्रायमल्पमूल्यकमेव वस्त्रं धर्तुं युक्तमस्ति, जात्वपि रञ्जितं नैव । यदपि कारणसत्वे कल्कादिपदार्थर्वस्त्रवर्ण परावर्तयितुमाज्ञप्तं तदपीदानी तादृशकारणाऽसत्वाद्वस्त्ररञ्जनं रञ्जितवसनधारणश्च शास्त्रगच्छमर्यादाभ्यां विरुद्धमेव ।”
६ “प्रतिक्रमणकाले श्रुतदेवी-क्षेत्रदेवी-भुवनदेवीनां कायोत्सर्गस्तुतेलघुबृहच्छान्तिपाठस्य च विधानं जैनाऽऽगमीयपश्चाङ्गयां प्राच्याचार्यप्रणीतप्रामाणिकग्रन्थेष्वनुपलब्धमेवाऽतः प्रतिक्रमणे तत्पठनमशास्त्रीयं दोषकृच्चाऽस्ति । किन्तु पाक्षिक-चातुर्मासिकाऽऽब्दिकप्रतिक्रमणानन्तरं दुःखकर्मक्षयहेतुककायोत्सर्गे कृते चाऽऽज्ञार्थ भुवनदेवीक्षेत्रदेव्योः कायोत्सर्गकरणे नास्ति दोषः।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org