________________
(१०) ७ " सश्रीकाऽश्रीकश्रावकाणां सामायिकदण्डकोचारणाऽनन्तरमेव 'ईरियावहि' कर्तुं जैनागमेषु व्यधायि । अतः 'तिविहेण साहुणो णमिऊण सामाइयं करेइ करेमि भंते ! एकमाइ उच्चरिऊण इरियावहियाए पडिकमइ' इत्याद्यागमवचनादादी त्रिविधयोगेन गुरुवन्दनं विधाथ सामायिकदण्डकमुच्चार्येव · इरियावहि' प्रतिक्रमणं करणीयम् ।"
८"स्वोपकरणस्य भृत्येन श्रावकादिना वोत्थापनम्, गृहस्थेन वस्त्रस्य प्रक्षालनम् । उपाश्रये धर्मशालायां वाऽऽनीतवस्त्रपात्रादिग्रहणम्, चतुर्भास्यां देशान्तरादानाय्य बहुमूल्यककम्बलाऽऽदानम्, पटोपानत्परिधानम् , सीवर्णिकराजतफेमयुक्तोपनय ( चश्मा) धारणम् , नित्यपिण्डाऽशनम्, एते सकला अपि गोऽऽचारत्वान्मुमुक्षुभिः साधुभिः साध्वीभिहेया एव ।”
६ " अाहतीः प्रतिमास्तदर्चन विधिश्च सूत्रेषु टीकासु च बहुशः प्रत्यपादि। अतः प्रतिमानामहेदभेदधिया सभक्तिभावं पूजनादिकमात्मश्रेयस्करम् ।"
अथैतस्मिञ्जगति ये पुण्यात्मान उत्पथेन गच्छतः परान सत्पथमानीय तदुन्नति चिकीर्षन्ति प्रथमं तैरेव सत्पथगैरहिंसकः, सत्यवचनैः सुशीलैर्भाव्यम् । तथाभूतानां मन्तव्यास्तेषु जीवत्स्वेव सुखेन प्रकाशितुमर्हन्ति, भवन्ति च तदनुयायिनः परेऽपि । मंक्ष्वेवेति मौलिक सिद्धान्तं लक्ष्यीकृत्य स्वयं तितीर्घरन्येषां तितारयिषयाऽसौ राजेन्द्रसूरीश्वरस्तथैवाऽऽचरन् देशे देशे प्रतिग्रामेऽप्रतिबद्धं विहरमाणोऽविभ्यत्तान् सिद्धान्तानपिप्रथत् । तेन लकमायो नरनारीगण स्तदनुयायी जज्ञे । तत्प्रसङ्गे राजनगर--सूरत -राधनपुरेन्दिरापुर-रतलामप्रमुखाऽनेकनगरेषु पीताम्बरविजयानन्दसूरि-यति बालचन्द्रोपाध्यायप्रभृतीन् , जावरानीमच-निम्बाहेड़ा--जालारेषु स्थानकवासिसम्प्रदायपूज्यचोथमल-नन्दलाल-तख्तमलप्रमुखान् सुचिरं सञ्जात शास्त्रचर्चायामागमोक्तप्रमाणपाठेरनुत्तरैरनुत्तरीकृत्य विजयमानोऽसो स्वसिद्धान्तं स्थापयाचक्रे । इत्थं लुप्तप्रायां त्रैस्तुनिकी सत्तां शाश्वतीमागमोक्तां याथातथ्येन साधुताश्च समुद्धत्य निजगच्छीयं शुभाऽऽख्यानं श्रीसौधर्मबृहत्तपोगच्छ ' इति दधिवान् ।
६ प्रतिष्ठाञ्जनशलाका-जीर्णोद्धार-ग्रन्थरचना:-- एतदीय सुपुण्यगुण्यसदाऽऽदेयदेशनामाहम्ना कियत्सु लघुगुरुनगरपामेष्वनेक
१ दृशोः शक्तिशैथिल्ये रोगादिप्रतिबन्धके वा धात्वतिरिक्तफ्रेमवदुपनयधारणे न कापि क्षतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org