________________
( ११ )
जिनालग - सदुपाश्रय-- धर्मशाला - विद्याशाला - कन्याशाला - पुस्तकशालाच निर्माध्य तदसत्त्वताऽपूरि । एतस्य करकमलेन शतं प्रतिष्ठा, द्वाविंशतिरञ्जनशलाका अजायन्त । एवं गणनया सार्धसहस्रत्रय लघुगुरुजिनेन्द्रबिम्बाञ्जनशलाकाप्रतिष्ठाऽमुनाऽकारि । तत्राऽऽगतानां सहस्रशः स्त्रीपुंसानां कस्यचिच्छिरोsपि नैव विव्यथे एतदेव तदीयां विधिदक्षतामनुमापयतेऽधुनापि । नह्येतदेव, यत्र यत्रैतद्दत्तमुहूर्त्ते प्रतिष्ठा अभूवन् तत्र सर्वत्र लेशतोऽप्युपद्रवो नाभूतू, सर्वथा सदानन्द एव ववृधे धन्वनि जालोरीयप्राच्यतमस्वर्णगिरितीर्थेस्य, दियावटपट्टीय - भाण्डवपुरीय श्रीमहावीरतीर्थस्य, कूणी - पट्टीयकोरण्टतीर्थस्य च समुद्धरणे तदीय महाऽऽशातनानिराकृतौ च सर्वतः प्राथम्येन स एव सौभाग्यमाप । एवं श्वेताम्बरीयपणे गच्छन्तमतिपावनं वावनगजाऽऽख्यं सुतीर्थमप्यनेकैतिहासिक प्रमाणपत्र प्रदर्शनेनाऽसावेव तत्रे |
आदर्शभूतात्मनां सतां पुंसां जीवनचरित्रमिव तदुपदेशाः, प्रोजस्विनो ग्रन्थाश्च लोकानुपकुर्वन्ति । यदद्य परितो भारतवर्षमहिंसाप्रधानधर्मोद्घोषः शोश्रूयते, तत्सर्वं बहुश्रुतप्राच्याssचार्याणां सारग्राहिकृतेरेव महिमा । श्रतः प्रतिसमयं जनानां बलबुद्धी विलोक्य तद्धिता दूरदर्शिन आचार्यास्तत्तद्विषयकान् गद्यपद्यनिवद्धसंस्कृतभाषाग्रन्थान् रचयामासुः । येषां पठनपाठनाभ्यामिदानीन्तना लोका बहूपकृता जायन्ते । इति शिष्टपरिपाटी परिपालनाय सोऽपि स्वसमयवर्तिजनताहितकृते संस्कृतप्राकृत भाषासङ्गीतग्रन्थान् रचयाञ्चकार । तदभिधानानीमानि
"
46
१ श्री अभिधान राजेन्द्र : ( बृहज्जैनप्राकृत - मागधीविश्वकोशः ), २ पाइय सदबुहि ( प्राकृत - मागधीशब्दार्णवः ), ३ प्राकृतव्याकरणविवृतिः, ४ प्राकृतशब्दरूपावली, ५ सव्वसंगहगाहापगरणं, ६ खर्परतस्करप्रबन्धः, ७ चन्द्रिकाधातुपाठः, ८ शब्द कौमुदी, ६ कल्याणमन्दिर - प्रक्रियाटीका १० सकलैश्वर्य स्तोत्रं सटीकं, ११ उपदेशरत्नसारः, {२ अक्षयतृतीयाकथा, १३ रजः पर्वणिकथा, १४ दीपमालिकाकथासारः, १५ उत्तमकुमारोपन्यासः १६ उपासकदशाङ्गसूत्र-भाषान्तरं, १७ गच्छाचारपयन्नावृत्ति - भाषान्तरं, १८ श्रीकल्पसूत्र - बालावबोधः, १६ सिद्धान्तसारसागरः ( बोल संग्रहः ), २० सिद्धान्तप्रकाशः, २१ चतुष्ककर्मग्रन्थाक्षरार्थः, २२ स्वरोदयज्ञानयन्त्रावली, २३ त्रैलोक्यदीपिकायन्त्रावली, २४ द्वाषष्टिमार्गणाविचारः, २५ कमलप्रभा शुद्ध रहस्यम्, २६ प्रश्नो
१ अस्य परमपावनस्य तीर्थस्य मर्मस्पृगैतिहासिक वृत्तान्तबुभुत्सुभिः ' यतीन्द्रविहारदिग्दर्शनस्य प्रथमद्वितीभागौ, ' कोरटाजी तीर्थ का इतिहास ' नामक हिन्दी पुस्तकश्वाऽवलोकनीयानि । यश्च मु० खुडाला, पो० फालना ( मारवाड ) श्री राजेन्द्रप्रवचनकार्यालये मिलति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org