________________
(१२) त्तरपुष्पवाटिका, २७ जिनोपदेशमञ्जरी, २८ तत्त्वविवेका, २९ भाष्टाहिकव्याख्यानभाषान्तरम् ,२० राजेन्द्रसूर्योदयः, ३१ एक सोपाठ बोल का थोकडा, ३२ षद्रव्यचर्चा, ३३ गद्यसंस्कृतात्मकं हरिविक्रमचरित्रम् , ३४ सङ्गीते-देववन्दनमाला, ३५ धनसारचोपाई, ३६ अघटकुमारचोपाई, ३७ मुनिपतिचोपाई, ३८ घ्रष्ट्रचोपाई, ३६ सिद्धचक्रपूजा, ४० महावीरपंचकल्याणकपूजा, ४१ चतुर्विंशतिजिनस्तवनम् , ४२ चैत्यवन्दनचतुर्विंशतिः, ४३ चतुर्विंशतिजिनस्तुतिः, ४४ केसरियानाथविनतिवृद्धस्तवनम्, ४५ कथासंग्रहपश्चाख्यानसारः। एतदतिरिक्तान्यापि जिनेन्द्रस्तुतिगर्भितस्तवन-चैत्यवन्दनछन्द-स्तुतियुगलौपदेशिकस्वाध्याया उपलभ्यन्ते ।
लेखनकलायामप्यसौ सिद्धपाणिरेवाऽऽसीत् । यतः सदैव साधुक्रिया-व्याख्यानदानाऽतिरिक्तकालेऽपि श्लोकानां पञ्चशतीं लिखनासीत् । तद्धस्तलिखिताः स्वधराः सटीकत्रिपाठा भगवतीसूत्र-प्रज्ञापनासूत्र-समवायाङ्गसूत्र-प्रश्नव्याकरणसूत्र-जीवाभिगमसूत्र-कुवलयानन्द-नयचक्र-सारस्वत--चन्द्रिका-पाणिनीयाष्टाध्यायीप्रमुखग्रन्था अतिशुद्धा आहोरनगस्थश्रीराजेन्द्रबृहज्जैनागमसंग्रहभाण्डागारे विद्यन्ते।
७ तपस्यासहसूरिमन्त्राऽऽराधनं समाधियोगसाधनञ्च'मौङ्गीतुङ्गीपर्वतीयाऽतिविषमगुहायामष्टाष्टोपवासं कुर्वन् पाण्मासिकं मरिमन्त्राऽऽराधनम् तथासत्यपि देहसौकुमार्येऽतिशीतकाले नर्मदातीरे तिशीतले निर्वासा एव कायोत्सर्गेण तस्थिवान् । मरौ मोदे ग्रामस्थचामुण्डादेव्या अतिसघनकाननेऽप्यष्टाष्टो. पोषणं विदधदष्टौ मासान् कायोत्सर्गेण ध्यानम्, जालोरीयस्वर्णगिरेरतिसन्तप्तशिलोपर्यातापनामकृत । एतदतिदुःसहतपस्तेजसा कियतां सातिशयानां सिद्धिमप्याप । इत्थं प्रतिचातुर्मासमेकान्तरोपवासम्, प्रतिपर्युषणेऽष्टमम्, बृहत्कन्पे षष्ठभक्तम्, प्रतिदीपावल्यामष्टमम्, तिसृषु चतुर्मासीषु नैयत्येन षष्ठभक्तम्, प्रतिदशम्यामेकाशनम् , प्रतिपञ्चम्याश्चतुर्दश्याञ्चोपवासमसौ यावजीवं चक्राणः । तानवे वाऽन्यस्मिन् प्रतिबन्धे समुपस्थितेऽष्यङ्गीकृतमुपयुक्तनियमं साधुसमाचारी व्याख्यानवाचनं वा जात्वपि नैवाऽजहात् । किश्चाऽस्य यहि कर्हि समायातो ज्वरस्तर्हि तं निराकर्नु स्वोपकरणं सकलं गृहीत्वा मध्यावे चतुष्पञ्चक्रोशान्तं जवेन विहरन्नासीत् । अनयैव प्रतिक्रियया सद्य एव ज्वरं शमयानकार, जात्वपि दैशिकं वैदेशिकं वा किमप्यौषधं तदपनोदाय यावजीवं नाsघसत् । दिने साधुकृत्याऽशन-व्याख्यानाऽवशिष्टवेलायां शिष्याञ्छास्त्रमध्यापयन् , निशि च सायन्तनप्रतिक्रमणाऽनन्तरं याममात्र जिज्ञासूनां यथावदुत्तरयंस्तेषामसत्वे ताविकचर्चया तत्त्वमेवाऽवबोधयन्नासीत् । अतःपरं सांस्तारिकविधिना द्वादशैकवादनावधिकं शयनं विषाय पुनरेकद्विवादने जागरित्वा पद्मासनाऽऽसीन आत्मानमेव दम्यौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org