Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 18
________________ यत्र धर्मे विषयेभ्यो विरागः, कषायाणाश्च त्यागः, गुणेष्वनुरागः, क्रियासु सर्वज्ञोदितकर्मस्वप्रमाद-आलस्यराहित्यं जायेत, स एव धर्मः शिवसुखस्योपायो दाता । अतः संसारे मातापितृकुटुम्बादिसम्भूतसुखदुःखादिकं सर्वमतात्त्विकं मोहनीयकर्मजातमेवेनि मन्वानः पुमानीन्द्रियमनसोर्जिगीषया वैराग्यभावनमेव समाश्रयीत, वर्वति चेदमेव मानुष्यसाफल्याय सुखसाधनम् । २ गुरुसमागम-दीक्षाऽऽदान-शास्त्राऽभ्यासाःअमुष्मिन् संसारे यद्येव लोकानां भाग्यमुदयते तद्देव साधनमप्यनुकूलमायातीति नियमानुसारेण रत्नराजस्यापि मानसे वैराग्यभावनायां समुत्पन्नायां तपोगच्छनेता श्रीविजयप्रमोदसूरिज्येष्ठगुरुभ्रातृहेमविजयादिमुनिगणैः सत्रा तत्र भरतपुरे समाजगाम । श्रीसको महताऽऽडम्बरेण तस्य स्वागतं वितत्य बह्वाग्रहेण तत्रैव तच्चातुर्मामीमप्यचीकरत । एतर्हि सत्समागमे हेमविजयाच्चन्द्रिका जैनकाव्यानि च कतिपयान्यध्यगीष्ट रत्नराजः । ततोऽसौ मनसि व्यमृशत्-यः पुमानिह सुकृतशतलभ्यं मानुष्यमधिगम्य स्वपरहितकरं नो साधयति तस्य जननमजागलस्तनमिव नैष्फल्यमेवाञ्चति, जनुस्तु तस्यैव साफल्यमियति येन स्वं त्यागनिकषोपर्यारोप्यते । अतो मयापि ज्ञानस्य सारं विरतिः' इतिसूत्रानुसाराच्छाशनसमाजधर्माणां स्वस्य च कन्याणचिकीर्षुणा त्यागकषोपरि चटितव्यमेव । यदुन्नता उद्यमवन्तो जन्तवः स्वेष्टविमृष्टकृत्यविधाने मनागपि कालविलम्ब नो कुर्वन्तीतिहेतुना रत्नराजः स्वबन्धुवर्गादेरादेशमुरीकृत्य चतुरधिकैकोनविंशतिशततमाब्दे वैशाखशुक्लपञ्चमीभृगौ श्रीमद्विजयप्रमोदसूरिनाम्नो गुरुभ्रातवर्यश्रीहेमविजयमुनिपुङ्गवपार्श्वे पारमेश्वरी दीक्षा जग्राह । प्रथयामास च सङ्घानुमतिको गुरुरन्वर्थ ' रत्नविजय' इति तन्नाम । १ एतस्य जनुर्मेदपाटीये डबोकग्रामे गौडब्राह्मणस्य परमानन्दस्य सुशीलाया भार्यायाः पार्वत्याः कुक्षितो वैक्रमे १८५०वर्षे चैत्रिकशुक्ल प्रतिपद्यभवत् । पप्रथे च प्रमोदचन्द्राभिधानेन १८६३तमे हायने वैशाखसिततृतीयायां दीक्षितस्याऽमुष्य वैक्रमे १८६३तमे चाऽब्दे ज्येष्ठसितपश्चभ्यां सूरिपदमजायत । विक्रमीये १९३४तमेऽब्दे मध्वसितदर्श धन्वन्याहोरपुयाँ स्वरगच्छत् । प्रातः सायश्चैष प्रतिक्रमणप्रतिलेखने यावदन्तं नैयत्येन कुर्वन् यथासमयमेव सकलयत्याचारपरिपालको बभूव । २ राजेन्द्रसूरीश्वरजीवनप्रभाप्रमुखभाषामयग्रन्थेष्वेतद्दीक्षाऽब्द १६०३यदुल्लिलेख, तत्तु धन्वदेशीयप्रचलितश्रावणादिमासगणनयाऽवगन्तव्यम् । तत्र हि श्रावणाऽसितप्रतिपदमारभ्यवत्सरारम्भो मन्यते । प्रख्यातिमञ्चण्डूपञ्चाङ्गे तु चैत्रसितपक्षतेरेवाऽब्दगणनममानि । अत एतदनुसारेण दीक्षाब्द १६०४ इत्येव सामञ्जस्यमहति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 408