Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 21
________________ ज्वालाजटालः श्रीपूज्यस्तषेवमाख्यत्-पंन्यासजी ! यथोपदिशसि मा शक्तिश्चेत्स्वयमपि श्रीपूज्यतामधिगम्य तथाऽऽचरेस्तयैव सत्यं विद्यामहमपि, अन्यथा वाङ्मात्रेण तथोपदेष्टारस्तु फाल्गुने बालका इव पदे पदे सन्त्येव, तैः किं सिध्येत् ? । ईदृक्षाः परोपदेशनमात्रसारास्तु 'गर्जति शरदि न वर्षति, वर्षति वर्षासु निःस्वनो मेघः।' 'कहते सो करते नहीं, मुंहके बड़े लवार ।' इत्यायुक्तेरुदाहरणमेव जायन्ते । ४ धरणेन्द्रसूरेगच्छीयशिक्षा, श्रीपूज्यपदधारणम्', क्रियोद्धारश्च-- अथ गम्भीरप्रकृतिक पंन्यासरत्नविजयस्तदाकर्ण्य मनसि दध्यौ-यदत्र संसारे प्रायेण सकला अपि जना अधिकारमदेनाऽन्धतामापन्ना उत्पथेनैव चलन्तः सर्व तृणाय मन्यमाना निजमर्यादामपि लुम्पन्त्येव । अत एते योग्यशिक्षा प्रदाय मयाऽवश्यं सुपथि समानेतव्याः। ततो योग्यतिभिः सत्रा भाद्रसितद्वितीयायामसौ रत्नविजयस्ततः प्रस्थाय क्रमश आहोरनगरे स्वगुरोः श्रीमद्विजयप्रमोदम्रेरभ्यर्णमागात् । अभ्यधाच श्रीपूज्येन साकं यथाजातमशषवृत्तान्तम् । गुरुरपि योग्याऽयोग्यसमयं विमृश्य श्रीसंचाऽऽरन्धमहामहेन वैक्रमे १९२४ तमेऽब्दे वैशाखसितपश्चभीबुधवासरे पंन्यासरत्नविजयस्य निजपरम्पराऽऽगतमूरिमन्त्रं प्रदाय 'श्रीविजयराजेन्द्रसूरिः' इत्यारख्यां दत्त्वा श्रीपूज्यपदं ददिवान् । तयेव ठकुर श्रीयंशवन्तसिंहो श्रीपूज्यायाऽस्मै स्वर्णयष्टिचामर-च्छत्र-याप्ययान-सूर्यमुखी-चन्द्रमुखी (किरणीया )-महावस्त्र ( दुशाला) प्रमुखमार्पिपच्च । अथाऽसौ श्रीपूज्य श्रीमद्विजयराजेन्द्रसूरीश्वरः सुयोग्ययतिमण्डलपरिवृतो गुवाज्ञया ततश्चलित्वाऽधिमार्गसम्प्राप्तनगरपामादौ श्रीसद्धेवावन्द्यमानः क्रमेण मेदपाटीय-शम्भुगढमागतवान् । तत्र फतहसागरनामायतिवर्यस्तत्रत्येन श्रीसङ्घन पट्टमहामहं कारयित्वोदयपुरमहाराजस्य कार्यकर्ता श्रीपूज्योचितस्वर्णयष्ट्यादिसकलोपस्करमस्मा उपहारितवान् । तदनन्तरं ततः प्रस्थितोऽसको प्रतिग्रामे नगरे च भावुकैः 'खमासमणा' कारयंस्तत्कृतपूजोपहरणादिकमाददानो जावरासङ्घविहिताऽत्यन्ताग्रहण मालवदेशीयं जावरानगरमागत्य १९२४ वर्षे चातुर्मासमकार्षीदेषः। व्याख्याने श्री १ अयं हि विक्रमीये १८९२ वर्षे तपस्यशुक्लनवम्यां चांपावतकुलविभूषणठक्कुरश्रीशक्तिदानसिंहस्य गेतापुरोद्भूतहाडीजीसमाख्यायाष्ठक्कुराण्याः कुक्षेरुदपद्यत । विक्रमीये १८९६ वर्षे चतुर्वर्षीयानेव सहःकृष्णाऽपरदर्शतिथ्यां भृगुवासरे पितुरासनमध्यास्त । अभू. चैतस्य लालसिंहः सूनुः, पुत्री च रतनकुंवरसमाख्या। आहोरीयस्थानञ्च योधपुरराज्यान्तर्गतसमस्तसरायतसरदारगोष्ठयामेकमस्ति । योधपुरराज्यतः प्रजावर्गयनिग्रहानुग्रह (फोजदारीदीबानी ) करणमप्ययाञ्चक्रे किलैषः । इत्थमत्र महीयसी प्रतिष्ठामधिगम्य वि. १९२६ वर्षे माधवसितद्वितीयायां स्वरगात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 408