Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 23
________________ (८) हस्ताक्षरं कृत्वा सम्मत्य च तदीयमूरिपदं पुनस्तावेव यतिवरौ तेन सम्मतिपत्रेण सह जावरांगमयाश्चक्रिवान् । अथाऽगतौ तौ तदनुमतीकृतसमाचारीपत्रं श्रीसूरिमदीदृशताम् । तदालोक्य 'अङ्गीकृतं सुकृतिनः परिपालयन्ति' इति नैतिकं वाक्यं साफल्यं नयमानः श्रीमद्विजयराजेन्द्रसूरीश्वरस्तदैव श्रेपूज्यकरी सकलां सामग्री तत्रस्थश्रीसुपार्श्वनाथ जिनेशमन्दिरे समुपहृत्य पुस्तकसंग्रहश्चाऽऽहोरनगरीयज्ञानभाण्डागारे दत्ता पश्चविंशत्यधिकैकोनविंशतिशततमाऽब्द्यां शुच्यसितदशम्यां बुधवासरे श्रीसङ्घाऽऽाब्ध. महामहे जायमाने शुभे सुस्थिरे च लग्ने क्रियोद्धारं कृतवान् । तव धानेरानगरीयो यतिर्धनविजयो मेवाडदेशीयभीडरनिवासी सङ्गीतवार्धियतिः प्रमोदचिरेतावुभावपि श्रीमद्विजयराजेन्द्रसूरिपार्श्वे क्रियोद्धृतिलक्षणां दीक्षामाददाते । ५ स्वमन्तव्यस्थिरीकरणं सत्यवस्तुस्थितिप्रकाशनश्चप्रथाऽसौ क्रियोद्धतेः परस्तात्प्रथमां चतुर्मासी सङ्घाऽऽग्रहेण मालवीये खाचरोदनगरे चक्रिवान् । तत्र च सङ्घविहितमहामहेन श्रीधनविजयमुनेरुपाध्यायोपाधि वितीय, १ 'यस्य गुरुपरम्परास्वेकद्वित्रिपट्टाऽवधिकं किञ्चिदाचारशैथिल्ये प्रवृत्तमपि सर्वथा साधुसमाचारी नैवोदच्छिदत् , स स्वयमपि क्रियामुद्धत्तुमर्हति । यस्य तु सप्ताऽयावधिकगुरुपरम्परा शैथिल्यमुपनीय सर्वथैव क्रियां विलुलोप स साम्भोगिकादिगुरुपार्श्वदेव तामुद्धरेत् ।' इति हीरप्रश्नोत्तरादिशास्त्रमर्यादया श्रीमद्विजयराजेन्द्रसूरीश्वरः स्वयमेव क्रियामुदहरत् । २ अध्यजायताऽयं किसनगढाभिधमहापुर्यां कङ्कुचोपडागोत्रीयत्य श्रेष्ठिन ऋद्धिकरणस्य भार्याया अचलायाः कुक्षर्विक्रमीयषरणवत्यधिकाऽष्टादशशततमे वत्सरे मधौ मासे शुक्ल पक्ष शशिनि वासरे चतुर्थ्यां तिथ्याम् । ततः प्रहलादनपुरप्रान्तीयधानेरानगरे १९१७ वर्षीये माधवमासे शुक्ले पक्षे गुरौ च वासरे पं० यतिलक्ष्मीविजयपाधै गृहीतदीक्षः, सं० १९२५ कार्तिकसितपञ्चम्यां खाचरोदपुर्या श्रीमद्विजयराजेन्द्रसरेरात्तबृहद्दीक्षस्तदत्तोपाध्यायपदवीं च सहःशुक्लपञ्चम्यामलब्ध । ततो जावरानगरे सं०१६६१ ज्येष्ठशुलैकादश्यां बुधवासरे सौधर्मबृहत्तपोगच्छीयः श्रीसङ्घ आचार्यपदं प्रदाय, श्रीमद्राजेन्द्रसूरेरासनमलङ्कारयामासाऽमुना। मरुदेशीयबागरानगरे च सं०१६७७ नभस्यसितप्रतिपञ्चन्द्रवासरे स्वरगादसकौ । यञ्चाऽस्य जीवनविषये गुर्जरीयभाषामये 'श्रीमद्धनचन्द्रसूरिजी' नामक पुस्तके लल्लुवल्यभदासेन स्वकपोलकल्पितमेव कियदुदलेखि तद्धेयमेव । ३-असौ सं०१८९८कार्तिकसितपञ्चम्यां मेदपाटीय-भीडरग्रामे शिवदत्तविप्रस्य भार्याया मेनावत्या उदरादजनिष्ट । एतस्य कनीयसी स्वसा रुक्मिणी रघुदत्तो बन्धुश्चाऽऽसीत् । तत्रैव १६१३वर्षे माघशुक्लपञ्चमीगुरौ पं०श्रीभमररुचियतेः पार्श्वे यतिदीक्षां लात्वा सङ्गीतशास्त्राण्यधीत्य तदभिज्ञतामाप । विक्रमीये १९३८ तमे वर्षे शुच्यसितचतुर्दश्यां मालवदेशीये वांगरोदनगरे स्वरध्युवास । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 408