Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 19
________________ (४) अथैष गुर्वादिष्टः स्वगुरुसखस्य खरतरगच्छीयस्य मूकीसरस्वतीतिविरुदधारकस्य यतेः सागरचन्द्रस्य पार्श्वे पञ्चवर्षाणि न्युष्य व्याकरणे-सभाष्यसिद्धान्तकौमुदीप्रमुखान् , न्याये-सिद्धान्तमुक्तावली-गौतमसूत्र-रत्नकरावतारिकाप्रमुखान् , काव्येरघुवंशादिमहाकाव्यानि, कोशे-चाऽमराभिधानचिन्तामणिप्रभृतीन् , अलङ्कारे-कुवलयानन्दसाहित्यदर्पणकाव्यकल्पलताप्रमुखान् , ज्योतिषे-नैमित्तिकफलग्रन्थाननेकानधीत्य तपोगच्छाचार्यश्रीपूज्यदेवेन्द्र सूरेश्चाऽऽगमानशेषानध्यैष्ट । अमुष्य योग्यता प्रागल्भ्यश्चाऽऽलोक्य श्रीदेवेन्द्रसूरिर्वक्रमे नवाऽधिकैकोनविंशतिशततमेऽब्दे वैशाखसिततृतीयायामुदयपुरनगरे हेमविजयेन बृहद्दीक्षां पंन्यासपदं चाऽस्मै महामहेन दापयानके। ३ धरणेन्द्रसूरेविद्याभ्यासस्तेन साकमैलयेविषये विवादश्च.----- स्वान्तसमये च श्रीपूज्यदेवेन्द्रमुरिरेनमेवमुवाच-वत्स रत्नविजय ! यद्यप्यहं निजासने धीरविजयमतिष्ठिपम् , धरणेन्द्रसूरिरित्यभिधानं च तस्याऽकरवम् , परमयमधुनाऽनभिज्ञो वर्त्तते । अतस्त्वया सम्यगाप्तधियाऽध्याप्य सुविद्वान् गच्छीयमर्यादाऽभिज्ञश्च विधातव्यः । यदेतद्गच्छीयसमस्तभारस्त्वय्येव न्यस्यते । ततो धरणेन्द्रमूरिमभ्यधात्-त्वया रत्नविजयपंन्यासस्य पार्श्व एवाऽध्येतव्यम्, सदैतच्छिक्षायां वर्तितव्यम् । यस्यां मर्यादायां वर्तितुमादिशेत्तां मात्यक्रमीः । इत्युभाभ्यां तच्छिक्षणे शिरो धारिते श्रीपूज्यः समाधिनाऽनशनं विधाय राधनपुरे निजदेहमजहात् । अथ पं०रत्नविजयः प्रथमं गुरुदत्ताश्चमत्कृतिकरीः सकला विद्याः संसाध्य, प्रदर्य च जोधपुरबीकानेरनरेशी महतीमद्भुत चमत्कृतिमाभ्यां यतिसिद्धिविजयहेतुकचिरपरिहतस्वर्णयष्टि-च्छत्र-चामर-यष्टिधर-याप्ययान-महावस्त्रादिसर्वं सदैवैषा पद्धतिरित्थं प्रचलेदेतत्पट्टपरम्परायामग्रेतनः कोऽपि नरपतिनान्यथा कुयोत्, इति तन्नरपतिद्वयमुद्राङ्कितप्रमितिपत्रेण सह धरणेन्द्र सूरये दापयामास । तदनु तदादिपोडशयतिवरानन्यानपि धारणादिगुणयुक्तान् सर्व पाठयित्वा स्वपरसमयविज्ञानकरोच्च । अथैतत्प्रत्युपचिकीः श्रीपू १ अस को सं० १८२६ तमे वर्षे वैशाखसिततृतीयाचन्द्रवासरे मरुदेशीयसोजतनगरे गणधरचोपड़ागोत्रीय-श्रेष्ठिसुन्दरलालस्योपकेशवंशीयस्य गृहपत्न्याः श्रीदेव्याः कुक्षेरजनिष्ट श्रीलालनामा । सं०१८४२वर्षे सहःशुक्ल द्वितीयागुरौ मरौ बीकानेरपुरि श्रीदेवेन्द्रसूरिपार्श्व दीक्षामादाय शास्त्राण्यधीत्य विद्वत्तामधिगम्य सं० १८५३वत्सरे माघशुक्लपञ्चम्यामुदयपुरीयमहाराणादत्तं 'कार्मणसरस्वती' इत्युपाधिमधिगम्य गच्छे च शैथिल्यप्रवेशमुदीदय सं० १८९३वर्षे निजश्रेयसे क्रियामुद्दधार । तत: सं० १९०६ तमे वत्सरे कार्तिक्यां पूर्णिमायां मरुधरदेशीये जोधपुर-नगरे स्वर्गमध्यवात्सीत् । अभूञ्चैष महाविद्वांस्तपस्विमुख्यः क्रियापात्रं बहुधा काननस्थायी च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 408