Book Title: Kalikacharya Katha Author(s): Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ पूजाम् ॥२६॥ तमन्यदा कृष्णमुखं विलोक्य, पप्रच्छ साहिं मुनिपः किमेतत् ? । तेनाचचक्षे I(तेनोक्तमस्मिन्) मम योऽस्ति राजा, साहानसाहिः स च भण्यतेऽत्र ॥२७॥ तेनात्र लेखः ॥ प्रहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् । पञ्चाधिकाया नवतेर्नृपाणां, ममानुरूपश्छल एव भर्तुः॥२८॥ एकत्र सर्वे सबलं मिलित्वा, हिन्दूकदेशं चलताशु यूयम् । गुरोनिदेशा-: दिति तैः प्रहृष्टै पैः प्रयाणं झटिति प्रदत्तम् ॥२९॥ उत्तीर्य सिन्धुं कटकं सुराष्ट्रा-देशे। समागत्य सुखेन तस्थौ । सर्वेऽपि भूपाः सुगुरोश्च सेवां, कुर्वन्ति बद्धाञ्जलयो विनीताः॥ ३० ॥ वर्षावसाने गुरुणा वभाषे, अवन्तिदेशं चलतेति यूयम् । नृपं निगृह्णीत च गईभिल्लं, गृह्णीत राज्यं प्रविभज्य शीघ्रम् ॥३१॥अभाषि तैः शम्बलमस्ति नो नः, किं है कुर्महे ? कालिकसूरिरेवम्। ज्ञात्वा च तेभ्यः शुभचूर्णयोगैः, कृत्वेष्टिकाः स्वर्णमयीर्ददौ । सः ॥३२॥ ढक्कानिनादेन कृतप्रयाणा, नृपाः प्रचेलुर्गुरुलाटदेशम् । तद्देशनाथौ बल-16 JainEducation intendhidndia ForPrivatesPersonal use Only nelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12