Book Title: Kalikacharya Katha
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ कालिका ० ॥ ४॥ वाक्यानि नृपः सभायाम् । अहो सुधम्र्मो जिननायकस्य, शिरो विधुन्वन्निति तान्ब - भाषे ॥ ४७ ॥ निशम्य भूपस्य सुधर्म्मवाक्यं, पुरोधसो मस्तकशूलमेति । जीवादिवादे | गुरुभिः कृतोऽपि, निरुत्तरस्तेषु वहत्यसूयाम् ॥४८॥ कौटिल्यभावेन यतीन् प्रशंसन्, नरेन्द्रचित्तं विपरीतवृत्तम् । चक्रे पुरोधा गुरुभिः स्वरूपं, ज्ञातं यतिभ्यो यदनेषणीयम् ॥ | ४९ ॥ ते दक्षिणस्यां मरहट्ठदेशे, पृथ्वीप्रतिष्ठानपुरे च जग्मुः । यत्रास्ति राजा किल सातयानः, प्रौढप्रतापी परमार्हतश्च ॥ ५० ॥ राज्ञाऽन्यदाऽपृच्छि सभासमक्षं, प्रभो! कदा पर्युषणा विधेया ! । या पञ्चमी भाद्रपदस्य शुक्ले, पक्षे च तस्यां भविता सुपर्व्व ॥५१॥ नृपोऽवदत्तत्र महेन्द्रपूजामहो भवत्यत्र मुनीन्द्र ! घस्रे । मयाऽनुगम्यः स च लोकनीत्या, स्नात्रादिपूजा हि कथं भवित्री ? ॥५२॥ तत्पञ्चमीतः प्रभुणा विधेयं, षष्ठ्ट्यां यथा मे जिननाथपूजा । प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ ! तव प्रसादात् ॥ ५३ ॥ राजन्निदं नैव भवेत्क Jain Education International For Private & Personal Use Only कथा. ॥ ४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12