Book Title: Kalikacharya Katha
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कालिका
कथा.
*A*XXXSXX23303
॥६०॥समादिदेश प्रभुरस्ति शक्र!, श्री कालिकार्यः श्रुतरत्नराशिः । श्रुत्वेति शक्रःप्रविधाय । रूपं, वृद्धस्य विप्रस्य समाययौ सः॥६१॥ विप्रोऽथ पप्रच्छ निगोदजीवान् , सूरीश्वरोऽभाषत ताननन्तान् । असङ्ख्यगोलाश्च भवन्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः॥६२॥ श्रुत्वेति । विप्रो निजमायुरेवं, पप्रच्छ मेशंस कियत्प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणिपत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः॥६४॥श्रीमत्कालिकसूरयश्चिरतरं । चारित्रमत्युज्वलं, सम्पाल्य प्रतिपद्य चान्त्यसमये भक्तप्रतिज्ञा मुदा । शुद्धध्यानविधान-3 लीनमनसः स्वर्गालयं ये गता-स्ते कल्याणपरम्परां श्रुतधरा यच्छन्तु सद्धेऽनघे॥६५॥
॥इति श्रीकालिकाचार्यकथा सम्पूर्णा ॥ इति श्रेष्ठि-देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः १८.
॥५॥
Jain Education Intl
For Private Personel Use Only
ALAriainelibrary.org

Page Navigation
1 ... 8 9 10 11 12