Book Title: Jinvallabhsuri Granthavali
Author(s): Vinaysagar, 
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 390
________________ जिनवल्लभसूरि-ग्रन्थावलि ३१९ शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य। प्राप्य प्रसन्नोऽभयदेवसूरिं ततोऽग्रहीज्ज्ञानचरित्रचर्याम्॥७॥ शुभगुरुपदसेवाऽवाप्तसिद्धान्तसारा वगतिगलितचैत्यावासमिथ्यात्वभावः। गृहिगृहवसतिं स स्वीचकारातिशुद्ध्या सुविहितपदवीवद्गाढसंवेगरङ्गः॥८॥ तथाऽस्य संविग्नशिरोमणेरभून्मनः प्रसन्नं सकलेषु जन्तुषु। जिनानुकृत्यां भुवनं विबोधयन्, यथा न शश्राम महामनाः स्वयम्॥९॥ धर्मोपदेशकुलकाङ्कितसारलेखैः, श्राद्धेन बन्धुरधिया गणदेवनामा। प्राबोधयत्सकलवाग्जडदेशलोकं, सूर्योऽरुणेन कमलं किरणैरिव स्वैः ।।१०।। तानि द्वादशविस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा ___ न्यत्यन्तं च गभीरभूरिसुपदान्युनिद्रितार्याणि च। व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते मादृशे, नारोढुं तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गुना ॥ ११ ॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रचूडामणे भव्यप्राणिविबोधने रसिकतां वीक्ष्याद्भुतां शाश्वतीम्। आदेशाद् गुणविनवाङ्गविवृतिप्रस्तावकस्यादयत्, प्रादात् सूरिपदं मुदञ्चितवपुः श्रीदेवभद्रप्रभुः॥ १२ ॥ -द्वादशकुलक-टीका-मङ्गलाचरणम् जयन्ति सन्देहलतासिधाराः, श्रोत्रप्रमोदामृतवारिधाराः। सूरेर्गिरः श्रीजिनवल्लभस्य, प्रहीणपुण्याङ्गिसुदुर्लभस्य ॥ १ ॥ आसन्नत्र मुनीश्वराः सुबहवश्चारित्रलक्ष्म्यास्पदं, स्तोकाः श्रीजिनवल्लभेन सदृशा निर्भीकवाग्विस्तराः। संग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते, तुल्याः श्रीसितवाजिना विजयिनो वीराः कियन्तोऽभवन्॥२॥ -द्वादशकुलक-टीका-प्रशस्तिः १२. नेमिचन्द्र भण्डारी-[१३वीं उत्तरार्ध ] अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तउयडा केइ। परं जिणवल्लह सरिसो, पुणो वि जिणवल्लहो चेव ॥ १०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398