Book Title: Jinvallabhsuri Granthavali
Author(s): Vinaysagar, 
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 392
________________ जिनवल्लभसूरि-ग्रन्थावलि 39 तस्मिन् सोऽभयदेवसूरिरभवत् क्लृप्ताङ्गवृत्तिस्ततः, संविग्नो जिनवल्लभो युगवरो विद्यालिताराऽम्बरम्। -प्राकृतव्याश्रय-टीका प्रशस्तिः प० २ १८. अभयतिलकोपाध्याय-[सं० १३१२] तच्छिष्यो जिनवल्लभो गुरुरभाच्चारित्रपावित्र्यतः, सारोद्धरसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः। सिद्धाकर्षणमन्त्रकोन्वखिलसद्विद्याभिरालिङ्गनात्, कीर्त्या सर्वगया प्रसाधितनभोयानाग्र्यविद्यो ध्रुवम्। -संस्कृत-द्वयाश्रय टीका-प्रशस्तिः प० ४ जज्ञे तदीयपदवीनलिनीमरालः, स्वेभ्यश्चरित्ररमया जिनवल्लभाख्यः। -न्यायालंकार-टीका-प्रशस्तिः १९. चन्द्रतिलकोपाध्याय-[सं० १३१२] श्रीजिनवल्लभसूरिस्तत्पट्टेऽभूद् विमुक्तबहुभूरिः। भव्यजनबोधकारी कल्मषहारी सदोद्यतविहारी॥ तर्क-ज्योतिरलंकृतिर्निजपरानेकागमाल्लक्षणं, . यो वेत्ति स्म सुनिश्चितं सुविहितश्चारित्रिचूडामणिः॥ नानावाग्जडमुख्यकान् जनपदान् श्रीचित्रकूटस्थितां, चामुण्डामपि देवतां गुणनिधिर्यो बोधयामासिवान्॥ -अभयकुमार-चरित्र-प्रशस्तिः प० १०-११ २०. लक्ष्मीतिलकोपाध्याय-[सं० १३१७] विद्वत्ताऽतिशयर्द्धि संयमरमात्रैमातुरः सर्वतो, वक्त्रो यस्य यश:कुमार उदितः श्रीतारकाधीश्वरम्। चित्रं न्यत्कृतवांस्त्रिलोकमपि च प्रासाधयल्लीलया, तीर्थं श्रीजिनवल्लभो गणपतिः शास्ति स्म सोऽयं ततः॥ -श्रावकधर्म-टीका-प्रशस्तिः प० ४ २१. प्रबोधचन्द्रगणि-[सं० १३२० ] विद्या मा भवताकुला जननि! वाग्देवि! त्वमाश्वासयैता धातस्त्वमिमां प्रबोधय गिरं ब्रह्मन्। स्वयं मा मुहः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398