Book Title: Jinvallabhsuri Granthavali
Author(s): Vinaysagar, 
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 396
________________ जिनवल्लभसूरि-ग्रन्थावलि રૂર ४१. कमलसंयमोपाध्याय-[सं० १५४४] विचारवद्वाङ्मयवारधाता, गुरुर्गरीयान् जिनवल्लभोऽभूत्। । सूत्रोक्तमार्गाचरणोपदेश-प्रावीण्यपात्रं न हि यादृशोऽन्यः॥४॥ -उत्तराध्ययनसूत्र ‘सर्वार्थसिद्धि' टीका-प्रशस्तिः ४२. पद्ममन्दिर गणि-[सं० १५५३ ] प्राप्तोपसम्पद्विभवस्तदन्ते, द्विधाऽपि सूरिर्जिनवल्लभोऽभूत्। जग्रन्थ यो गन्थमनर्थसार्थ-प्रमाथिनं तीव्रक्रियाकठोरः॥७॥ -ऋषिमण्डल-वृत्ति-प्रशस्तिः ४३. युगप्रधान जिनचन्द्रसूरि-[सं० १६१७] तत्पट्टपद्मवनबोधनराजहंसाः, विश्वातिशायिचरणामलशीलहंसाः। चारित्रचारुमनसो विहितोपकाराः, सप्रातिहार्य-जिनवल्लभ-नामधाराः॥६॥ चामुण्डाप्रतिबोधका निजगुणैः श्रीचित्रकूटे स्फुटं, मूलोन्मूलितकुग्रहोग्रफलिनाः सत्साधुमार्गादराः। मिथ्यात्वान्धतमोनिरासरवयः प्रख्यातसत्कीर्तयः पूज्यश्रीजिनवल्लभाख्यगुरवस्ते सङ्घभद्रङ्कराः॥७॥ -पौषधविधिप्रकरण-टीका-प्रशस्तिः ४४. महोपाध्याय पुण्यसागर-[सं० १६४०] स जयताज्जगति जनवल्लभः, परहितैकपरो जिनवल्लभः। चतुरचेतसि यस्य चमत्कृति, रचयतीह चिरं रुचिरं वचः॥ २॥ -प्रश्नोत्तरैकषष्टिशतकाव्य-टीका-मंगलाचरण ४५. अज्ञात-[लेखन सं० १६४०] विमलप्रज्ञाशालिबुधजनितानवद्यविद्याधरीसङ्गमोन्मुखप्रवृत्तेन तेनैव श्रुतमकरन्दस्वादलुब्ध यद् पदे नै वानवर तासेव्यमानचरणारविन्दः आसीजिनवल्लभाभिधानः सूरिः। -प्रश्नोत्तरैकषष्टिशतकाव्यावचूरि-अवतरणिका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398