Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 11
________________ ततः विंशतितमशताब्द्यां नैजपाण्डित्येन प्रधानतमाः चत्वारः पण्डिताः । इयपिळ्ळै वग्दाचार्यः, जयरामवेङ्कटाचार्यः, मण्डयं लक्ष्मीतातार्यः, बालधन्वि जग्गुवेङ्कटाचार्यश्च । वरदाचार्यः श्वेतशार्दूल इव दोषदर्शनमात्रेणैव पगनाकामति स्म । जयगमवेङ्कटाचार्यस्तु असितभल्लुक इव शास्त्रप्रन्थिषु बद्धमुष्टिः । लक्ष्मीतातार्यस्तु पट्टाभिषिक्तो गज इव गाम्भीर्यागारः । बालधन्वि जग्गु वेङ्कटाचार्यस्तु काननसिंहः इवासीत् । यतस्तस्य सन्निधौ विद्वांसः विद्यार्थिनश्च स्वस्वमर्यादा नोल्लखितुं प्रभवन्ति ।" इति स्वपिता तिरुवाय्मोळिरामानुजाचार्यः असकृदाहस्म” इति वि टि. तिरुनारायणैय्यङ्गार्यः अद्यापि तदातदा वदति । एतेष्वपि असंख्यशिष्यगणशिक्षणे परीक्षणे महाप्रबन्धनिबन्धने चायमेक एव बालधन्वि वेङ्कटाचार्यः स्वदेशे विदेशेष्वपि प्रख्यातः शिष्यैर्विद्वद्गणैश्च बहुमानितः पगं काष्ठामानन्दस्यानुबभूव । एवंस्थिते कदाचिदयं कविर्वकुलभूषणः बेङ्गळूरुनगरे स्वपितृष्वसुः पत्युर्जयगमवेङ्कटाचार्यस्य गृहे वसन् स्वीयमद्भुतांशुकनाटकं मुद्रापयति स्म । तदानीं वेङ्कटाचार्यः कविना पठितं नाटकं श्रुत्वा कविमवदत् । " यद्यपि नाटकान्तं कवित्वं" इति सुव्यक्तम् । तथापि " गद्यं कवीनां निकषं वदन्ति" इति कवित्वस्य नाटकान्तत्वेऽपि गद्यस्य कवितानिकषत्वं सुस्पष्टम् । यदि गद्यकाव्यकरणे सम्पन्नो भविष्यसि तदा कविरिति विश्वसिमः" इति सोपहासमब्रवीत् । तदायं कविः उपहासवचनेन खिन्नः प्रोत्साहितश्च पूर्वमेव लिखितं गद्यकाव्यं श्रावयामास तम् । ततस्संतुष्टो बभूव जयरामवेङ्कटाचार्यः । अस्य गद्यग्रन्थस्य शय्यापाकादिगुणग्रहणविद्धो ह्यस्य कवेः परमप्रीतिपात्रं सुहृन्मणिः महीशूर विश्वविद्यालयसंस्कृतप्राध्यापकः वि. टि.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 254