Book Title: Jayantika
Author(s): Bakulbhushan Mahakavi
Publisher: Human Resource Development Government of India

View full book text
Previous | Next

Page 10
________________ IV ईदृशकाव्यकरणनैपुणे सुशिक्षयितारः केचनैव गुरवो लभ्यन्ते कवेस्सौभाग्यवशेन । गुरूणामेतादृशानां बोधनचातुरीचर्चितचित्तारिशष्यास्तु लोकशास्त्रकाव्यादिषु सुशिक्षितास्सुकवयो भवन्ति । अश्व बालधन्विकुलकलशजलनिधिकलानिधिः जग्गु वकुलभूषणश्चेदृशः कश्चन महाकविः । यतश्वे दृशोगुरुस्स्वपितृव्यपादः स्वगृह एव समुपलब्धः कविनानेन । अमरकोशाद्यारभ्य रसगङ्गाधरादिपर्यन्तास्सकला अपि प्रन्थास्तत्सकाशादेव सम्यगधीता: । सांख्ययोगसूत्र भाष्यादयश्च । तदातदा यावद्यावन्नाटकादयो लिखिताः, तावत्तावच स्वपितृव्यपादानां सम्मुखे पठिताश्चासन् । एवं सुशिक्षितेन पथा प्रतिपदमाक्रममाणस्सग्ससरलकविताकामिनीमाधुरीधुनीप्रस्रवणधुरीणतां प्रपेदे | स च गुरुबलधन्विकुलाम्बुधिपूर्णचन्द्रमाः साहित्यकलाकुशलः, परम्परागतसरससरलकविताकामिनीसमाकृष्टकेशपाशः, सरससाहित्यसुमान्यवगाह्य तलनिलीनमधुरमधुधुनीं विरतझङ्कति सविमर्श पायं पाय सुहितो मत्तचित्तवृत्तिभृंगराजः, दुरूह श्रुत्यन्तरहस्यार्थप्रन्थिविश्लेषणचतुरचारुमति:, साहित्यालङ्कार सांख्ययोगोभयवेदान्तविद्वत्पद्मधितिष्ठन्, सांख्यतीर्थोपाधिना च परिष्कृतः, श्रीमन्महीशूर महाराजश्रीजयचामभूपवितीर्ण स्वर्णकट कराङ्कवद्वय सहितसाहित्यरत्नबिरुदः, यादवाद्रि श्रीयतिराजमठास्थानदत्तशास्त्रकविरत्नबिरुदः, श्रीमान् बालधन्वि जग्गुवेङ्कटाचार्य:, अनुपमबोधनचातुरीसमावर्जितशिष्यगणहृदयो विराजते स्म । "क्रिस्तस्यैकोनविंशशताब्द्यां यादवाद्रौ, यादवाद्रिमहाचार्य, मधुरमङ्गलंएम्बारजीयर, यादवाद्रि नाटम्पळ्ळि अनन्तार्यप्रभृतयो विद्वांसः प्रसिद्धा आसन् । ततः विंशतितमशताब्द्याः प्रथमपादेऽपि श्री कुप्पण्णास्वामिनः, मण्डयं आळुारस्वामिनः, तिरुवाय्मोळितिरुनारायणाचार्याः इत्यादय: संभाविताः पण्डिताः आसन् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 254