Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ जंबूकुमार चरित्रम् // 7 // | जाताः, कस्य कः ? अतो धर्म एव परमबन्धुः // इत्याष्टादशसम्बन्धदृष्टांतः // प्रभवः पुनरपि कथयति हे जम्बू ! त्वया यदुक्तं तत्सत्यं, परं-अपुत्रस्य गतिर्नास्ति / स्वर्गो नैव च नैव च // तस्मात्पुत्रमुखं दृष्ट्वा / स्वर्ग गच्छति मानवः | // 7 // // 1 // इति पुराणवावय, अतो भोगान् भुक्त्वा सुतं गृहे स्थापयित्वा संयमे मनो रक्ष! जम्बूः प्राह न हि सुतेन सुगतिकुगत्लोविपर्ययः, सांसारिकजीवानां केवलं मोहभ्रम एवायं. यथा महेश्वरदत्तस्य पुत्रः कार्ये नागतः, प्रभवेण पृष्टं कोऽसौ महेश्वरदत्तः ? जम्बू प्राह विजयपुरे नगरे महेश्वरदत्तः श्रेष्ठी, तस्य महेश्वरनामा पुत्रः, मरणवेलायां महेश्वरदत्तेनोक्तं मम श्राद्धदिने एक महिषं हत्वा तदीयेनामिषेण सर्वोऽपि परिजनः पोषितव्यः स मृतः, पुत्रेण पितृवचनं धारितं. स मृत्वा वनमध्ये महिषो जाता, महेश्वरमाता गृहमोहेन मृत्वा गृहे कुकुरी जाता. एवं दैवयोगात्स एव महिष आनीता, अथ महेश्वरस्य स्त्री कुलटा, तया सह रममाणो जारपुरुषो महेश्वरेण मारिता, स मृत्वा तद्गृहे पुत्रत्वेनोत्पन्नः, स लाल्यमानोऽस्ति, स महिषो मारितः, कुटुंबेन तन्मांस भक्षित, एतस्मिन्प्रस्तावे | श्रीधर्मघोषनामा मुनिर्गोचों तत्रागतः, तद्ग्रहचरितं ज्ञानेन ज्ञात्वा भणितं-मारितो वल्लभो जातः। पिता पुत्रेण भक्षितः // जननी ताज्यते सेय-महो मोहविभितं // 1 // एवं श्लोकं श्रुत्वा महेश्वरेणोक्तं स्वामिन् किमेतत् ? साधुना सर्वमपि कथितं स न मन्यते, कुकुरीपाचान्निधानदर्शनेन प्रत्यय उत्पादितः, ततो महेश्वरः श्राद्धं मुक्त्वा श्राद्धो जाता, कुर्कुर्यपि जातिस्मरणं प्राप्य मिथ्यात्वं त्यक्त्वा स्वर्ग गता. अतो हे प्रभव ! पुत्रेण का सिद्धिः? इति महेश्व रदत्तदृष्टांतस्तृतीयः॥३॥. P.P.Aclotpatnasuri M.S. Seeeeeeeo DeeeeeeeeeseDES Jun Gun Aaradhand

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19