Book Title: Jainstotrasandohe Part 1 Author(s): Chaturvijay Publisher: Sarabhai Manilal Nawab View full book textPage 9
________________ समवाप्त्यनन्तरं प्रणीतद्वादशाङ्गगणिपिटकं चतुर्ज्ञानशालिनं सरित इव महार्णवं अपरित्यक्तमर्यादं, व्रततय इव महीरहं समाश्रितसन्तापव्यापपरिहारक्षमम् , राजहंसराजय इव मानसं अपगतकालुष्यहृदयं, तारका इव हिमगभरित मालिनं पियूषरसाश्रिताभिर्गोद्भिः क्षालयन्तं समन्तात्तमोभरं जगतः समशिश्रमन्नक्षीणमहानसीप्रभृतयः सहर्षमनावाप्त स्थानान्तराः अनेका लब्धयो भवन्तम् । निवसता पञ्चाशद् वत्सराणि गृहवासं, निरन्तरं कारयता यज्ञ• कर्माणि, सर्वज्ञाभिमानेन भवार्णवपोतायमानं समासादितं वैराग्यम् , त्रिंशदब्दानि परिपालयता छअस्थपर्यायं व्यधायि नि छद्मभक्त्या श्रीवीरजिनचरणसेवा, विहिता च न्यासीकृताङ्गष्ठक्षीरकारितपारणा पञ्चदशशतीव्युत्तरा तापसानां स्फुरत्केवलज्ञानावबोधा तत्क्षणेन, शिवंगते भगवति व्युच्छिन्ने प्रेमबन्धने स्वयंवरा सभागता द्वादश समाः सनाथीकृता विषादेन त्रिभुवनविवरवर्ति चराचरं वस्तुजातं करतलगतामलकवद् दर्शयन्ती अप्रतिघाता अनन्ता निरावरणा केवलज्ञानलक्ष्मीर्भवता । परिस्फुरत्किरीटकोटिनिष्टङ्कितविविधभास्वररत्नराशिविनाशितान्ध समसा देह प्रभायोतितदिक्चक्रवाला भक्तिभरप्रहमानसा नमस्कुर्वते भवते नर-नाम-विद्याधरा-ऽसुर-व्यन्तर-ज्योतिष्क-वैमानिकानामधिपतयः सबहुमानम् । भवतः प्रसरमागता विमलावबोधाच्छोदनिर्भरा प्रत्यक्षानुमानप्रमाण विराजिततटद्वया दुष्कर्मद्रमोन्मूलनक्षमा अस्ताघस्याद्वादावर्ताता नयगमभङ्गोत्तुङ्गतरङ्गमालासमाकुला प्रवीणमुनिजनकर्णधारपटुतरPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 662