Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
सञ्चार्यमाणप्रतिभाप्रवहणा भव्यजनमलिनमनो विमलतामापादयन्ती स्रोतस्विनी द्वादशाङ्गी प्रक्षालयति प्राणिनां पापपङ्क, विशोधयतितरामात्मानं, विवर्द्धयति पुण्याङ्कुराणि, विनाशयति त्रिविधमपितापमिति कथने नास्त्येव कथमपि कथंकथिकताया अवकाशः ।
प्रतिदिनं प्रणवमायाबीजपूर्वकं नमोऽन्तं भगवतो भवतो नाममन्नाक्षरस्मरणकारिणां शरीरिणां न प्ररोहन्ति व्याघयः, प्रभवन्ति नाधयः, नोल्सन्ति नागोरगमृगेन्द्रारण्य वारिधिक्षुद्रदेवासुरप्रभृतीनां भयानि, समुल्लसन्ति सुखानि, वृद्धिमृच्छति कुटुम्बम् , समेधते धनम् , किं बहुना ? सफलता मायान्ति सर्वेऽपि प्रियासुतारोग्यसम्पदादिका मनोऽभिलषिता मनोरथा ऐहिका पारत्रिकाश्च ।
निवसन्ति भवति क्षान्त्यार्जवमार्दवप्रभृतयो यतिधर्माः, गाम्भीयौदार्यधैर्यमुखा स्तुहिनगिरिसुधांशुदिग्दन्तिशक्रगजगौरीशरूप्याचलक्षीरोदधिफेनप्रसरावदाताः सङ्खातीता गुणाः, तपः सम्पदः, क्षीराश्रवादयस्त्रिभुवनाश्चर्यजनका अनेका महत्यो लब्धयश्च ।
इत्याद्यनेक गुणगणाकृष्ठचेता भवच्छिष्यसन्ततिसमुद्भूतैरेव महद्भिराचार्यादित्रिविद्वद्भिः प्रणीतानामनेकेशां चित्रश्लेषयमकालङ्कारालङ्कतानां विविधरसनिकेतनानां स्तोत्राणां सुमहान् सङ्ग्रहोऽयं जैनस्तोत्रसमुच्चयप्रथमविभागरूपः समर्पयाम्यसावहं प्रमोदभरमेदुरो भवत एव केवलज्ञानप्रदानदक्षे करकिसलयेनागजी भूधरनी पोळ, सङ्घकिङ्करः
अमदावाद. साराभाई मणीलाल नवाब,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/790d4f45658c0de867660155b0861c0c3843f9d806bb5222087a50f3b794a54f.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 662