SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ समवाप्त्यनन्तरं प्रणीतद्वादशाङ्गगणिपिटकं चतुर्ज्ञानशालिनं सरित इव महार्णवं अपरित्यक्तमर्यादं, व्रततय इव महीरहं समाश्रितसन्तापव्यापपरिहारक्षमम् , राजहंसराजय इव मानसं अपगतकालुष्यहृदयं, तारका इव हिमगभरित मालिनं पियूषरसाश्रिताभिर्गोद्भिः क्षालयन्तं समन्तात्तमोभरं जगतः समशिश्रमन्नक्षीणमहानसीप्रभृतयः सहर्षमनावाप्त स्थानान्तराः अनेका लब्धयो भवन्तम् । निवसता पञ्चाशद् वत्सराणि गृहवासं, निरन्तरं कारयता यज्ञ• कर्माणि, सर्वज्ञाभिमानेन भवार्णवपोतायमानं समासादितं वैराग्यम् , त्रिंशदब्दानि परिपालयता छअस्थपर्यायं व्यधायि नि छद्मभक्त्या श्रीवीरजिनचरणसेवा, विहिता च न्यासीकृताङ्गष्ठक्षीरकारितपारणा पञ्चदशशतीव्युत्तरा तापसानां स्फुरत्केवलज्ञानावबोधा तत्क्षणेन, शिवंगते भगवति व्युच्छिन्ने प्रेमबन्धने स्वयंवरा सभागता द्वादश समाः सनाथीकृता विषादेन त्रिभुवनविवरवर्ति चराचरं वस्तुजातं करतलगतामलकवद् दर्शयन्ती अप्रतिघाता अनन्ता निरावरणा केवलज्ञानलक्ष्मीर्भवता । परिस्फुरत्किरीटकोटिनिष्टङ्कितविविधभास्वररत्नराशिविनाशितान्ध समसा देह प्रभायोतितदिक्चक्रवाला भक्तिभरप्रहमानसा नमस्कुर्वते भवते नर-नाम-विद्याधरा-ऽसुर-व्यन्तर-ज्योतिष्क-वैमानिकानामधिपतयः सबहुमानम् । भवतः प्रसरमागता विमलावबोधाच्छोदनिर्भरा प्रत्यक्षानुमानप्रमाण विराजिततटद्वया दुष्कर्मद्रमोन्मूलनक्षमा अस्ताघस्याद्वादावर्ताता नयगमभङ्गोत्तुङ्गतरङ्गमालासमाकुला प्रवीणमुनिजनकर्णधारपटुतर
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy