________________
UY
समर्पणम् ।
HETANI
AANTER
MAM
AIIMITED
पू. पा. प्रातःस्मरणीय ! गणधर ! गौतमेन्द्रभूते ! — अपश्चित तीर्थ भर्तुर्वद्धमानातिशय समृद्धेः श्रीवर्द्धमानजिनस्य बाह्याभ्यन्तरारातिविजयत्वाद् महावीरस्य शिष्यवर्गाग्रणीभवान् मगधजनपदान्तर्गत गौर्वरग्रामे विप्रविद्याविचक्षणस्य द्विजस्य वसुभूतेः शीलालङ्कार धारिण्यां प्रियायां पृथिव्यां प्राच्यामिव दिवाकरः सकलक्षितिभृत्कुलशिरोधार्यपादः, शच्यामिव जयन्तः समानन्दिताशेष विबुधनिकायः, यशोदायामिव पुण्डरीकाक्षः शङ्खचक्रगदापमाधुप लक्षित करः, परिस्फुरज्जन्मजरामरणार्तिजलचरमालाकराले, उन्मीलल्लोलमनो विकल्पसहस्रसलिले, रङ्गत्तुङ्ग तृष्णातरङ्ग भङ्गरेऽनन्तपारे भुवन व्यापिनि संसार समुद्रे निमज्जतां भव्यात्मनां समुद्दिघिर्षया समाससाद जन्म।
आशैश्वादपि ब्रह्मकर्म निष्णातं समधीतचतुर्दशविद्याकं वेदवेदाततत्त्वपारदश्वानं वहन्तं यज्ञमहात्म्याभिमानं साशङ्क मानसमपि सर्वज्ञ बिरुद धारिणं श्रीमहावीरपरिचयोद् विधूतनिःशेषविभ्रमं त्रिपदी