Book Title: Jainism from the View Point of Vedantic Acaryas
Author(s): Yajneshwar S Shastri
Publisher: B J Institute
View full book text
________________
APPENDIX
67
देहव्याप्त्यै विशेषः कस्तस्याः स्थानुतनौ च नुः ॥२४९॥ गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्यं रसात् स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् । एवञ्चाऽत्माकात्यमिति तत एवाऽह वेदवित् ॥ (२५०)
(IID
Vallabhācārya (1473-1531 A.D.) on Jainism (Brahmasutrānnubhāsyam - II. II. 33-36 with the
commentary Pradipa of Icchārāma Bhatta) विवसनसमयो निराक्रियते,
नैकस्मिन्नसम्भवात् ॥२.२.३३॥ ते ह्यन्तनिष्ठाः प्रपञ्च उदासीनाः सप्त विभक्तीः परेच्छया वदन्ति, स्याच्छब्दोभीष्टवचनः, अस्तिनास्त्यवक्तव्यानां प्रत्येकसमुदायाभ्यां स्यात्पूर्वकः सप्तप्रकारो भवति, तदेकस्मिन् योजयन्ति, तद् विरोधेनासम्भवादयुक्तम् ॥३३॥
प्रदीपः नैकस्मिन्नसम्भवात् ॥३३॥ अधिकरणमवतारयन्ति विवेसनेत्यादि, एत एव क्षपणका आर्हता जैनाश्चोच्यन्ते, मुक्तकच्छाः पूर्वं दूषिताः, इदानीं विवसना दूष्यन्ते, सौगतवज्जैना अपि जगति परमाणुकारणतां वदन्तीति तदनन्तरं तन्निरूपणं, दूष्यांशमनुवदन्ति ते हीत्यादि, सप्त विभक्तीः सप्तभङ्गीनयं नाम न्यायं, परेच्छया वदन्ति स्वेषामन्तनिष्ठत्वात् परेषां विवक्षानुसारेण यथोचितं वदन्तीत्यर्थः, तेषां मतप्रकार उच्यते, तत्र स्याच्छब्दोऽव्ययोऽभीष्टवचनः, अतोऽस्त्यादिभेदैस्तेषां समयः सप्तविधो भवति स्याच्छब्दयोगात् सोऽग्रे वक्तव्यः । ते ह्येवं मन्यन्ते-जीवजडात्मकं बोधाबोधात्मकं जगदेतन्निरीश्वरं तेन समासतः पदार्थद्वयमेव, विस्तरतस्तु जगत् षड्द्रव्यात्मकं तेषां मते, तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि । तत्र जीवास्त्रिविधा बद्धा योगसिद्धा मुक्ताश्च । धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी, अधर्मश्च स्थितिहेतुभूतो व्यापकः, पुद्गलो नाम वर्णगन्धरसस्पर्शवद्रव्यं, तच्च द्विविधं परमाणुरूपं तत्सङ्घतात्मकपवनज्वलनसलिलधरणीतनुभवनादिकञ्च, कालस्तु अभूदस्तिभविष्यतीतिव्यवहारहेतुरणुरूपो द्रव्यविशेपः, आकाशोऽप्येकोऽनन्तप्रदेशश्च। षड्द्रव्येषु परमाणुव्यतिरिक्ताः पञ्चास्तिकाया इति व्यवह्रियन्ते, तथा हि-जीवास्तिकायो धर्मास्तिकायोऽधर्मास्तिकायः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84